This page has not been fully proofread.

<page>
<ignore lang="sa">
4
 
</ignore>
<verse lang="sa">
या यादृच्छिकवासपात्रमभवत्तस्यै दिशे भूरिशो
 

मूर्ध्ना भीतिनतेन संप्रति नमस्कारं चमत्कुर्महे ॥ १७ ॥</verse>
<ignore lang="sa">
श्रीव्यासयोगिचरितम्
 
मूर्ध्ना भीतिनतेन संप्रति नमस्कारं चमत्कुर्महे ॥ १७ ॥
 
</ignore>
<verse lang="sa">
पद्यानां सुकवेरदृष्टविषयानाग्रेडितानामपि
 

प्रत्नानामिव भाति वागियमिति श्लाघापरान् केवलम् ।

चर्चादिक्रियया तथाऽभिनयतः साहित्यमर्मज्ञतां
 

वैधेयान् विधिरेव तर्जयतु तान् ये भावनाकोविदाः ॥ १८ ॥
 
</verse>
<verse lang="sa">
लोकालोकधरावधिर्न धरणी नाभ्रं मुहुः पुष्पव-

त्संचारप्रमितं न वा चुलुकितः कुंभीभुवांऽभोनिधिः ।

वाचा तादृशमद्य तस्य चरितं श्रीव्यासयोगीशितुः

क्रोडीकर्तुमना भवाम्यहमहो को मे समस्साहसी ॥ १९ ॥
 
</verse>
<verse lang="sa">
श्रीव्यासतापसमणेः चरितं निबंधुं
 

गण्यं महाकविभिरप्यहमारभेय ।
 

कार्येsपि यूथपतिना कलभः प्रवृत्तिं
 

प्रव्यातनोति हि मदेन परीतचेताः ॥ २० ॥
 
</verse>
<verse lang="sa">
गर्वामि नैव वचसां मम पेशलत्वा-
 

दंगीकरिष्यति जनोऽमुमिति प्रबंधम् ।
 

एषोऽवतंसयति यद्यतिनायकस्य
 

तस्यामितंपचगुणं महितप्रभावम् ॥ २१ ॥
 
</verse>
<verse lang="sa">
अन्तरायसलिलाचमनोद्य-
 

क्तर्णतालपवमानशिशूनि ।
 

तुंदिलानि कुतुकानि गणानां
 

कानिचिन्मनसि कंदलयामः ॥ २२ ॥
 
</verse>
</page>