This page has not been fully proofread.

प्रथमोल्लासः
 
प्रबंधानां कीर्तिस्थितिरनुपमो नायकगुण
स्तदा तस्याप्येते विदधति रसं ग्रंथिलपदाः ।
प्रबंधूणां किंतु प्रतिहतमनालिंपदयशः
 
प्रपंचानेतॄणां करतळवदान्यत्वसरणिः ॥ ११ ॥
 
भावये मनसा व्यासं यः स्ववाचा सुधामुचा ।
यौधिष्ठिरीं क्षितौ कीर्तिं द्राघिष्ठां प्रत्यतिष्ठिपत् ॥ १२ ॥
 
गुणेषु नेतुः कुशलेषु सत्सु
 
नृत्यंति वाचो नितरां कवीनाम् ।
 
कलाधिनाथस्य करोदयेषु
 
तरंगरेखा इव सागराणाम् ॥ १३ ॥
 
भो भो मत्सरकुत्सितान् सुमतयो दुर्वैदुषीगर्विता
नाकाशादवतारभागिन इवाहंयून् समाढ़ौक्य किम् ।
श्लाघाकंपनमेकमेव शिरसः श्रीव्यासयोगीशितुः
 
मेरूणां शतमर्हति क्षितितले विद्यासु विद्यावताम् ॥ १४ ॥
 
तोतिथिर्भवतु नः स तु कालिदासो
 
यः क्षोणिभागमवतारयति स्म वाणीम् ।
पाथोजसीधुसुरभिं परमेष्ठिलोका-
 
द्भागीरथीमिव भगीरथभूमिपालः ॥ १५ ॥
 
श्लाघामहे कविं बाणं यश्चक्रे मर्मणो भिदाम् ।
धन्वकोटिजुषि ज्यायां तिष्ठन्नेव विरोधिनाम् ॥ १६ ।
 
पुंसां केवलतर्कसारविफलीभूतात्मनां बिभ्रतां
अब्रह्मण्यनिदानवैभवकलामंभोजभूयोषितः ।