2026-01-24 15:26:24 by akprasad
This page has not been fully proofread.
<page>
<ignore lang="sa">2
</ignore>
<verse lang="sa">अंतर्वत्नीर्वितानैरतनुतनुरुचां हासयन् भासमानै
र्माला बालाहिकी: शं कलयतु कमलाकामनो वामनो वः ॥ ५ ॥</verse>
<ignore lang="sa">श्रीव्यासयोगिचरितम्
र्माला बालाहिकी: शं कलयतु कमलाकामनो वामनो वः ॥ ५ ॥
</ignore>
<verse lang="sa">भासामाशासु राशिं विकचनवजपाविद्रुमद्रोहिणीनां
तन्वन् राजन्यवन्यालवनमुकुलितां कीर्तिरेखामिव स्वाम् ।
पाणी मुक्ताक्षमालां दधदखिळभुवा प्रीणितब्रह्मवर्यो
योगी भोगींद्र भासा दिशतु परशुना लांछितो वांछितं वः ॥ ६ ॥
</verse>
<verse lang="sa">उद्दंड चंडिमानं भुजभुवि दधती दृप्तनक्तंचरस्त्री-
गल्यामांगल्यभूषामणिगणलहरीथालथल्यापहंत्री ।
वक्रम्णा शक्रवृत्तेः कुपितपतिधुतां तापसीं तापसीनां
प्रोद्धृत्याऽशास्यकीर्तिः शमयतु भवतां क्षत्रचूडारिपीडाम् ॥ ७ ॥
</verse>
<verse lang="sa">चेलं नीलाब्जनीलं दधदधरसुधाबांधवोद्वंधिहाला-
हेलासाहित्यरेवत्यधरदळपुटीचुंबनाडंबरैषी ।
वेलातीतारिहालाहलविलसितसद्बाहुवल्लीमतल्ली
भीमो रामोऽभिरामो जयति निजरुचा वैरदश्शारदेन्दोः ॥ ८ ॥
</verse>
<verse lang="sa">उद्यत्सख्यामभिख्यां प्रविकसदतसीपिंछतापिंछभाभिः
बिभ्राणोऽदभ्रकुंचीकुरवककळिकासंचरञ्चंचरीकः ।
दृप्यच्चाणूररेणूकरणनिपुणताध्वंसितांशंसकंस
वित्ते नृत्तं विधत्तां विबुधविबुधितः वल्लभो वल्लवीनाम् ॥ ९ ॥
</verse>
<verse lang="sa">भूयाद्भूत्यै महत्यै परचुळकसटाकर्कशः कल्किवर्यो
हेषाघोषैर्विहायः कुहरविसृमरैः भीषिताशेषलोकः ।
पंड पाषंडपुंसां कलिकलिततमोराशिकोशीकृतानां
खंड खंडं प्रचंडैः प्रखरतरखुरै रक्षिता यः क्षितिं वः ॥ १० ॥
</verse>
</page>