This page has not been fully proofread.

श्रीव्यासयोगिचरितम्
सोमनाथकविप्रणीतम्
 
॥ प्रथमोल्लासः ॥
 
॥ श्रीगुरुभ्यो नमः ॥
 
अन्वेष्यान्वेष्टृतायां विहितविनिमयः स्वस्य च प्रत्नवाचा-
माकृत्या रुच्यरुच्यांबुधिदुहितृदृशोर्गंधयन्बंधुभावम् ।
दंष्ट्रायष्टिप्रभाभिर्मुखमखिळदिशां तुत्थयन्नुत्थिताभि
 
यो मीनो यमीनैः स भवतु भवतां चित्तकासारवासः ॥ १ ॥
 
बिभ्रद्वंभ्रम्यमाणं शतमखमुखया लेखयाऽऽलेखमय्या
भोगाभोगेन भोगीशितुरभिवलितं मंदरामंदमंथम् ।
निर्यत्नं नूत्नरत्नाभरणमिव शिलानिष्ठुरे पृष्ठभागे
 
निर्माथे वर्ष्मवाधैर्मम बहुळतमं शर्म निर्मातु कौर्मम् ॥ २ ॥
ग्रस्तामाभीलमुस्तां कलयतु भवतां कोऽपि कूटस्थदंष्ट्री
 
दंष्ट्रा दंडे यदीये वलयमविलयं विश्वविश्वंभरायाः ।
वारां राशेरपारैर्मणिगणकिरणैः कर्बुरीभूतशोभं
 
तक्या बहलक्ष्म्यां प्रकटयतितरां भ्रामरीं धामरीतिम् ॥ ३ ॥
 
संगृण्हानस्य तस्याखिळमुनिसदसां तारवाचामनीचा
 
माशंसामातितंसोरमररिपुपतेर्वक्षसः क्षोदखेदम् ।
 
कुर्वाणस्योग्रदंष्ट्रा किरणाविकिरणैः कुंदनिंदां प्रभिंता -
 
मंहः सिंहस्य रंहो जनितजनिभयं स्तंभतो जृंभतो वः ॥ ४ ॥
 
सर्वं सर्वंसहाया बलिहृदि कलितं मानभंग्याऽभिमानं
कुर्वाणेनातिखर्वं चरणजलरुहा व्याप्तलोकेशलोकः ।