2026-01-24 15:17:35 by ambuda-bot
This page has not been fully proofread.
84
श्रीव्यासयोगिचरितम्
र्वर्तितहाराभरणप्रयोजनैः कांचीपुरगंधवाहस्तनंधयैरुपजीवितोपवनम-
ण्डले तुण्डीरजनपदमण्डने
सकलागमकलापव्याकृतिकुशलकोविदनिराकृ-
तद्रुहिणपुरंदराहंकारे श्रीमति गोविंदतीर्थपुरनामनिर्मिताग्रहारे महावा-
स्तव्य कुटुंबवत्सकुलवेतण्डघण्टामणिस्वप्नसमयप्रकटितसमग्रसन्निधानप्र-
सादवेधोंतःपूरिकाविश्राणितमणिकेयूरभूषणधारणसमेधमानचतुर्विधकवि-
ताविलासस्स सोमनाथकविस्तस्य भगवतो व्यासयोगीश्वरस्य
विश्वपावनमठाश्रमद्वारमुपासीदत् । यत्पिता सकलभुवनप्रतीतसप्तविंशति-
नाटकप्रबंधभावमणिदर्पणप्रतिबिंबितवाग्देवतानुरागस्य षड्दर्शनीप्रावि -
वाकस्य सदाचारसंप्राणित सकलस्मृतिवचनाभिधेयस्य यज्वरवरभास्क -
रस्य पौत्रस्य देवराजसोमपीथिकुमारस्य भट्टरायमुक्तिभास्करस्य
दिग्विजयपद्यमिदं ग्रामानिति पिताजननीपितामहः कालमेघाध्वरिपुत्रनि-
विद्यतादूयमान तातचरणमनः प्रमुमोदयिषया त्रिंशद्वर्षदेशीयः अजनि ।
सोऽयं चक्रे व्यासयोगीशसूक्तिं
तेनाकांक्षं तल्पजल्पं पठन्तु ।
लीलाम्बोधौ नीरधौ गन्धलालां
पातुं धीरा लालसा किं भवन्ति ? ॥
॥ इति सोमनाथकविविरचिते व्यासयोगिचरिते षष्ठोल्लासः ॥
॥ श्रीपतये नमः ॥
***