This page has not been fully proofread.

षष्ठोल्लासः
 
83
 
आकर्ण्य हर्षमाणेन तेन भगवता श्लाघाशिरः कम्पनैरनितरसुलभैरु-
पलालितस्स कविः प्रत्यहं प्रदर्शितेषु बहुविधकलावधानपाण्डित्येषु
 
प्रतिपादितैः
 
पारितोषिकविशेषैर्बहुमान्यमानस्तत्रैव
 
वासराणि
 
कतिचिदवात्सीत्। अथ जातुच्चित्रैस्सुरभिलमण्डले गगनपथचंक्रमणली-
लया पञ्चषानपनीतघटिकाविभागानखिलमेषसंविधिमशेष इति महतीमा -
ख्यानिकाममधिरूढस्यागणनीयानुभवैर्योगिभिरंतेवसद्भिस्सनकादिभि-
स्सरसिजासनस्येव संसेव्यमानस्य नानादिगंतरादुपजिहीर्षया समानीतैर-
परवसुमतीपतिभिः प्रणामक्रियाप्रवणितकनकमौलिशिखरमौक्तिकनिकर-
 
निर्विशेषितचरणनखमणिलेखकनकरसपारावारयशोभिरालंकारिकैश्च
वाणीनिराकृतपतंजलिप्रायैः पाणिनीयैश्च विवादविनोदवशंवदताचण्डिम-
कण्डूलजिह्वाप्रह्लीकारमात्रशिक्षितविपक्षपक्षयातिकैर्नैयायिकैश्च निरंतर-
सप्ततंतुंक्रियासंततिसंततसन्निधापितपुरुहूतपुरोगमसुरनिकरचिरविरह-
 
विधुरविबुधयुवतिजनविधूतकर्णावतंसकैश्च नवरसबंधुरबहुलप्रबंधप्रणेतृभा-
वसहजपाण्डित्यैरकुण्ठमतिभिः कण्ठीरवैश्च बाहटवचनानुलोचनविवेच-
नेन धन्वंतरिज्ञानेयभाग्भिः षभिश्च करबदरायमाण कालत्रितयविज्ञाना-
वज्ञातसुरासुरगुरुमनीषाविशेषैः ज्यौतिषिकैश्च संमुखीक्रियमाणचरणम-
णिपीठस्य भगवतो व्यासतपोनिधेस्समक्षं तत्कटाक्षवीक्षाप्रसादसूचितानु-
मतिस्स सोमनाथकविः अनतिसमीपवर्तिनौ परस्परोपमेयसुषुमाकाराव-
तिमधुरशालीनवाग्भिः परतंत्रितसामाजिकश्रवणपुटौ कंबुकण्ठकलकण्ठ-
नामानौ पाठकौ तदीयपावनचरितकोरकितं सकलविबुधगणश्रवणाभरणं
निरुदाहरणमुदाहरणमपाठयत् । तदा तदाकर्ण्य भगवान् संमोदवशंवदह-
दयश्लाघमानानां सर्वेषामपि तेषां सभास्ताराणां ततः कदाचन
क्षीरकल्लोलिनीकल्लोलमल्लपरंपरालिक्षालिकाकेलि विलासकलितोपशल्य-
करिगिरिमुररिपुमुखकमलवफापरिमलपारणगर्वदुर्ललितैः असहायसहकार-
मूलवासरसिकैः कव कपर्दिकुहरविहरमाणसुरसरिदूर्मिशीकरारववीचीनि-