This page has not been fully proofread.

षष्ठोल्लासः
 
81
 
कुलावतंसश्चतुरशीतिलेखनिनिरंतरविलेखनक्रियाक्षममुज्जृंभणवाग्गुंभनवै-
 
ये
 
भवस्य तादृशस्सोमनाथकविर्भवदीयचरणसरसीरुहसिषेविषया समागतां
तेवसतः न्ययुंजं तत्सेवायै भगवत्पदोदवसदोविद्वन् कवीन्द्रयतिनां
मन्तेवसता निवेदितवता स्नेहात्पुरस्कृत्य आनीतः प्रथमं विलोक्य
चरणौ व्यासस्य योगीशितुर्दृष्टः स्वां सफलां व्यधत्त युगलीं श्रीसोमनाथः
कविः। यदीयाबिरुदावलिरेवं भुवि जागर्ति। जगति परिभ्रमंति
लीढालीढव्याकरणैकदेशाकाशलेशावलोकनमात्रादुपजायमानया
विकचधिषणया विद्रामवविद्राव्यवहारव्यापारेण समविततचिंतासतापं
नृत्तचित्तौ बहुदिवससमाहितैः कतिपयपदैर्गद्यं वा पद्यमपरिसमाप्तमार-
चय्य बहुप्रबंधकर्तारवाश्रुप्रसरेण पामरान् भ्रामयंतं रीतिवृद्धाभ्रमातं
दधाना विलसितप्रतिभां सभां विदुषां प्रविश्य साहसादायपाकैश्शोकैर्मुख-
रमुखद्राकुश्लाघयद्भिरिव शिरः कम्पेन परंपरमिंगितज्ञैरधिकैः पाणिनीयै-
विडंबमानास्तु शब्दनवमालिकाकवयः-
 
तेषामसौराजयतिप्रतीतश्श्रीसोमनाथः कविलोकनाथैः ।
देव्या गिरा जन्मदिनं यदीयं विधातुरासीद्विरहैकहेतुः ॥
 
इति यत्पितामहस्य सकलभूतलप्रतीतसप्तविंशतिनाटकप्रकरणप्रबं-
धमणिदर्पणप्रतिबिंबितवाग्देवतानुरागस्य षड्दर्शनीप्राड्विवाकस्य समनु-
ष्ठितसदाचारसंप्राणितसकल स्मृतिवचनाभिधेयस्य यज्ववरभास्करपौ-
त्रस्य देवराजसोमपीथिकुमारस्य भट्टगयामूर्तिभास्करस्य जगद्विजयपद्य -
मिदमेव सूचयते-
 
ग्रामान् बुक्कमहीपतेरपि गयामुक्तं सुरत्राणतः
 
कुप्यं गौडपतेर्गजान् गजपतेर्वकेश्वराद्वाजिनः ।
रत्नच्छत्रकलां च चामरवतीमांदोलिकां कांचनीं
 
लब्ध्वा रायविभाटतो हरिहरान् किं भास्करो वांछति ॥