This page has not been fully proofread.

60
 
80
 
श्रीव्यासयोगिचरितम्
 
भवता त्वरितमागंतव्यमित्येतावंतं गुरुलेखासिद्धांतनेदीयसां विदुषां
निवेद्य मोदमानेन मनसा चिंतामेवमतनिष्ट । अहो वाचामगोचरशिष्यपर-
माणौ मयि नारायणतपोनिधेर्महानयं वात्सल्यभारः । इदं खलु
महापुरुषताया रूपम्। यदसन्निधानेऽपि महतां सभासमक्षमपरजनकौ-
शले यस्य महितं यानमुद्घटनम् । नैसर्गिकी खल्वेतादृशी प्रक्रिया
महाप्रकाशस्य पुरुषस्याप्यनिमित्ताऽप्यविस्मयनीया खलु जगदाह्लादन-
कार्मठीसुधांशोः । निस्सहा अपि महांतस्समाधेरपि परोपकारमेव
खलु परमाचारं विदंतीति ।
 
शिष्येणाथ गुरोश्च मन्त्रमहता देदीप्यमानस्सदा
तेनाशु प्रसरद्गभीरफणिति श्रीसोमनाथः कविः ।
काले कन्दलदीप्रसालकलिकाजाले शुभंयौ दिने
वीथीवेल्लिततुंगकेतनलतां विद्यापुरीं प्राविशत् ॥
 
तत्र सपरिच्छेदैः कतिपयैरनुगम्यमानः संगजसार्वलौकिककीर्तिके-
तककलिकाप्रवर्तितानपायप्रावृषेण्यसंपदवतारस्वप्नसमयप्रकटितसमग्रस-
 
न्निधानप्रसादवेदः प्रधानावरोधविश्राणितमणिकेयूरभूषणधारणसमेधमा-
 
नचतुर्विधकवितावनिताखण्डपाण्डितीशाश्वतशिबिकाधिरूढः प्रतिभटटं-
कपाटनपुटत ... दुर्वादवावदूकतावीरुधुपघ्नीकृतधिषणाहंकारो नैसर्गिका-
नन्यसुलभसौजन्यसंवहनगुलिकासमार्जितहृदयासकसुवांति लोकलालित-
चरितसोमनाथकविसुधाधिदेवताशिरः कम्पनसंपादन कार्मठीधुरीणमाधु-
रीतिलकितफणितिभिरवतंसितरसनांचलाभ्यां
 
स्वप्रतिबिंबाभ्यामिव
शुभगुणाभिजाताभ्यां कविभ्यां साकं प्रश्रयेण नमस्कृतः पूर्वं
तन्नारायणयोगिपुंगवं पुरोधाय व्यासतपोधनस्य विश्वपावनं मठद्वारमुपा -
सीदत् । तावत्स नारायणयतिः प्रथमतः प्रविश्य तस्मै भगवते
व्यासतापसाय सविनयं व्यजिज्ञपत् । स्वामिन् भगवदनुकम्पनीयशिष्य-