This page has not been fully proofread.

78
 
श्रीव्यासयोगिचरितम्
 
चरणपुष्करोधरायुवतीश्वरोमताचारमहीवरोधपारायणपरावनीशपराभावु-
कपरकामनिराश्रयमाणभगीरथपतिरथनहुषांबरीषमरुत्तनयपरीक्षिदु-
 
न्मुखमहिलेदुरंतशातकुंभस्तंभसौभाग्यगभीरिमकुंभलिकायमानभुजा-
 
शिखरमंजुलपंजरनिवासगलत्सर्वंसहाशारिको नलिनासनललनाहंसिका -
 
संसेव्यमानवदनकोकनदस्वच्छंदनिष्यंदमानफणितिरसपारणलोलुपकवि-
लोकलोलंबपृथुलभुजबलावलेपसंदीप्तिपूर्वदेवनंदीकरणकांदिशीकपुंरदर-
पारायणनारायणचरणस्मरणांकूरणपंतूपकरणपकोन्मेष श्रीमदच्युतदेवनृ-
पतिरधिकाधिकां सीमानं नाशितारिरासीमांतमवन्तिदेशमशासीत ।
 
संखेसंखेलभाजः प्रतिभटपरभूपालकोटीरकोटीवल्गत्खड्गा
गान्विनोरंचितमय त्यक्तां वैर्जातभंगैर्विपुलभुजबलैर्वैरिभिस्ते तु
शस्त्रैस्सताधिर्मे पितृमृत्युरिव यंत्रासांत्वानो
दोर्वल्लीपदमरणसंप्रतिभटक्ष्माभृत्कीर्तिश्रीराशि बहुलक्षणदयासंपन्नक्षोणीं
द्रान् समितिशतधाखंडितभूपयोधिभिः पुनरपि संयोजयति यः ।
 
संग्रामवर्षसमये ... मदीयो वर्षानसृग्बिंदुवलारिकोपान् ।
तत्रापि विद्युत्प्रसरे ... पांतं करवालमेघः ॥
 
शत्रूणां शरणं रणावनिषु यः पाणौ कृपाणौजसा
श्रान्तानां निजहस्ततोऽस्तधनुषां धिक्कोटिघाटि ।
शैलानां विवराणि वारुरु घटगण्यान्यरण्यानि वा
सिंधूनां सलिलानि वा तृणमणिप्राग्रासकर्माणि वा ॥
 
कृपाण्या
 
तेन राजाधिराजपरमेश्वरेण नरसनरपाल ... परमभागवतविनयवि-
तरणपराक्रमादिभिर्गुणैः पूर्वातिशयालुराश्रीमदच्युतमहाराजेन स
भगवान् व्यासतपोनिधिर्विस्रंभजनकमहापूजनविशेषं कंचन कालं
पर्यपूज्यत। ततः कदाचन तत्र भगवतो व्यासतापसस्य चित्तानुवर्तकः