This page has not been fully proofread.

<page>
<ignore lang="sa">
षष्ठोल्लासः
</ignore>
<p>
किं बहुना ।
 
</p>
<verse lang="sa">
त्वंगत्तरंगावलिघोषिताशैरंभोभिराच्छादितसार्वभौमाः 1

यस्याभ्रनिष्यंदिसमानभासः करा इवाभांति चतुस्समुद्राः ॥
 
</verse>
<verse lang="sa">
तत्रांतरे स खलु कृष्णनृपोऽनुजस्य
 

नाम्नाऽच्युतस्य नलभोजपराक्रमस्य ।
 

हस्ते महीभरणशासनलक्षणस्य
 

मस्ते मणिस्तबकितं मकुटं न्यधत्त ॥
 
</verse>
<p lang="sa">
तस्मिन् जलनिधिवेलावधिं वसुमतीवलयं लीलया छत्र

सति केयूरस्य निरपायचतुरुपाये श्रीमदच्युतदेवराये ।
 
</p>
<verse lang="sa">
कृष्णभूमिपतिरायुषोऽवधौ व्यासतापसमणिं स सूक्ष्मधीः ।

स्वर्गमार्गसुखसंप्रवृत्तये चेटिकामिव जिघृक्षुरागमत्
 
77
 
॥</verse>
<p lang="sa">
तत्र स महीपतिर्भगवंतं यतिमघवंतं नमस्कृत्य विदांवरपरलोकपथा

धिरोहिणीमिव तस्य महतीमाशिषमादरेणादाय प्रयाणे लीलाविषयीकृत-
 
</p>
<p lang="sa" merge-next="true">
नन्दनस्य
 
देवकीनन्दनस्य पुनरपि स्मारयन्नंबरौक: कदंबानि
 

बहुजन्मसुकृतेन वासववास्तव्यभावमभजत । तदनु तदनुजस्समग्रगुणग्रा-

ममौक्तिकमणिगणताम्रपर्णीसैकतायितचेतोऽवकाशश्शुभदिनरणमुखाभि-
 

मुखावनीपकविमतावनीपकदंबकनिरवधिविधीयमानदानद्वयी लीलाभिप्र-
 

हरीकीलालप्रवाहप्रणीततरंगिणीसहस्रस्वयंग्रहोत्सवसुखभवानुभवचतुरच-
 

तुरकृपालवाचालवीचीसूचितनिजभूमिसीमाजलधरलक्षितटिद्घटानि
 

राघाटक्रीडनाडंबरक्षेमंकरमेघंकरसमयस्संततसंतमसनिरंतरसंक्रांतचक्र-
 

वालशैलोच्चयपश्चार्धकटकतटपरिसरकासारचिरकालशयालुकैरवकाशाय-
 

सौखमयबिकाम्यमानयशश्शशिप्रकाशमविष्कृतोपायचतुष्कप्रवणितशुष्क-
 

मदतुरुष्कलुष्कराजकचूडापरिष्कारमणिनिष्क्रांतरोचिष्कलापपुष्करित-
 
</p>
</page>