This page has not been fully proofread.

76
 
ततः
 
श्रीव्यासयोगिचरितम्
 
स मान्यचरितः काचित् समा न्यक्कृतकल्मषः ।
अत्ययेऽवहदत्यर्थम् अत्यविंदुर्महायशाः ॥
 
ग्रामे व्याससमुद्रनामनि ततस्तेन प्रतिष्ठापिते
तेनाखानि यतीश्वरेण भुवनश्लाध्यस्तटाको महान् ।
निद्रातुं स जुगुप्सितेन मुनिना पीतोऽपि तत्सागरो
दैत्यारेरपरांबुराशिरिव यश्शुद्धांबुरुत्पादितः ॥
 
दिग्वेतण्डप्रकाण्डस्थपुटकटयुगक्षालिकाकेलिकृद्भिः
कल्लोलानां कदंबै: कबलितधरणिं कांतपाथः कलापम् ।
यं संवीक्ष्य प्रमोदाद् द्रुतमवतरतः पश्चिमांभोधिबुद्ध्या
रोद्धुं सप्ताश्वसत्पीन् प्रतिदिनमरुणो यत्र भारं विधत्ते ॥
 
प्रौढाः स्त्रातुमुपागताः प्रियतमैस्सार्धं तरंगावली
वेगोत्कूलितबुद्बुदैर्मृगदृशो या या मुहुर्वंचिताः ।
तास्ता व्रीलविनम्यमानमनसो फूत्कारबुद्धाच्छय
तीरे पश्चिमशुक्तिगर्भगलितान् मुक्तामणीन् गृह्णते ॥
 
यत्तीरवासनिरतैर्यतिनां समूहै
 
र्व्याख्यायमानमुपकण्ठतरुप्रतिष्ठाः ।
 
न्यायामृतप्रभृतिषु प्रचुरं प्रमेय
 
मुच्चारयंति शुकमाणवकाश्श्रुतेषु ॥
 
आनन्दमंतेवसतां वितन्वन् तरंगबाहाधृतशंखचक्रः ।
 
मध्वागमाख्यागमपारगंता यो व्यासयोगींद्रमिवानुयाति ॥