This page has not been fully proofread.

पष्ठोल्लासः
 
75
 
हस्तांभोरुहमानतांगुलिदलं विस्तारयद्दातृतां
 
विद्वद्राजिषु तस्य तत्र सदसि व्यासस्य योगीशितुः ।
युष्माभिर्भुवि पञ्चजन्मभिरियं भोक्तुं ध्रुवं शक्यते
रत्नानां पटलीति सूचनमिव व्यातन्वदालक्ष्यत ॥
 
संभावनावाप्तिसमुन्मदानां कवीश्वराणां कमनीयवाचाम् ।
हल्लोलैस्सा नृपतेस्सभाssसीदुल्लोलकल्लोलितजालमार्गा ॥
संपत्तीस्सकलदिगंतरार्जिताया
 
तादृश्यानरसमहीपसूनृतायाः ।
व्यातानीत्समुचितमेष इत्यशेषैस्सश्लाघे
सदसि जनैस्स कृष्णरायः ॥
 
एवं समधिगतसपर्याविशेषस्स भगवान् समुत्थाय कनकासनादति
प्रगल्भेन करुणारसमन्दरेण मकरन्दनिष्यन्दकरंबितेन अरविंददानेव
वीक्षाविशेषेण च सुधामधुरिमांतर्वत्नीभिर्भक्तिरसश्लाघनभारतीभिश्च
क्षितिपतिं कृतार्थीकृत्य समधिरूढचतुरंतयानो वाद्यमानानवद्यमङ्गलातो
द्यमण्डलानि ध्वानपिचण्डलितब्रह्माण्डभाण्डोदरेण त्वरमाणसामंतनरदेव
कुमारकराधिष्ठितशुनासीरतुरगचटुलतरखुरशिखरझर्झरितधरातलविसृमर-
 
परागकदंबजंबालितदिगंतस्तंबेरमकरटकटहेन पुरा प्रधावितदण्डिलोकवि-
शालीकृतालोककोलाहलोद्वेजितश्रवणकुहरसैनिकसंघानुपातेन नयेन धर्म
इव साक्षादनुगम्यमानो जनमयीमिव उपहारप्रसूनमयीमिव उपायनमयी -
मिव अंजलिमयीमिव हर्षमयीमिव भूयसीं राजवीथीपरंपरामतीत्य
करधृतकमण्डलुदण्डमण्डनैर्ब्रह्मवादिभिरपरिमितैश्शिष्ययतिकुलैरुपास्यमा-
नः प्रतिहारपरिसरं महांतं महाश्रममशिश्रियत् ।
 
भक्तया स तत्र प्रवणीकृतांगं करांगुलीभिः कलिताधरोष्ठम् ।
श्रीव्यासयोगी स्मितपूर्ववाचा तमन्वजानीत्सदनाय गंतुम् ॥