This page has not been fully proofread.

<page>
<ignore lang="sa">
74
 
</ignore>
<ignore lang="sa">
24
 
</ignore>
<verse lang="sa">
आत्मोद्भवैर्मणिगणैरवनीन्द्रमूर्ति

स्तस्याभिषेकमतनोच्चतुरर्णवीव ॥
 
</verse>
<verse lang="sa">
भुवि नृप इव कृष्णो भूपतिर्वा बुधो वा

नवमणिभिरमुं यो नार्चति व्यासभिक्षुम् ।

सकलमणिसमूहस्तं विनिन्दन्निवोच्चैः
 

खलखल इति शब्दं कल्पयन्नाप भूमिम् ॥
 
श्रीव्यासयोगिचरितम्
 
</verse>
<verse lang="sa">
तेऽभिषेकमणयो महीभुजा तत्र तत्र ससृपुर्निपातिताः ।

दीपिताखिलदिगंतभित्तिना धिकृता इव मुनीन्द्रतेजसा ॥
 
</verse>
<verse lang="sa">
ऊर्जस्वलैर्बहुविधैर्मणिभिर्व्यराजी-
 

त्प्राकारितस्स भगवान् प्रमुखो यतीनाम् ।
 

लोकाभिमोदनविचक्षणवर्षशंसी
 
तत्र
 

नानारुचापरिधिनेव नवांशुमाली ॥
 
</verse>
<p lang="sa">तत्र
भगवानर्थसरणिलङ्घनजंघालान्युपादानानीव
 
तेजसां
 

त्रयाणाम्, असदृशस्वतेजोबिभिक्षिषया क्ष्मातलमापतितानि सतारकदं

बानीव ग्रहनिकुरंबाणि, पुष्पाणीव भूपतिभक्तिविमललताया-

स्स्फुलिङ्गानीव निजतपस्तनूनपातस्समुदंचन्मरीचिप्रपञ्चवञ्चितसभाम-
 

ण्डलमङ्गलमणिदीपिकासमुन्मेषयत्नानि
 
क्षोणीसुरयत्नविश्राणितावशे-
 

षाणि तानि राशिं कारयित्वा नानादिशांचलेभ्यस्समागतानां कुण्डलाय

तुण्डिराधिपानां, केयूराय केरलानां, हाराय पारशीकानां, मकुटाय

लाटानाम्, अंगुलीयकाय कलिङ्गानां, कंकणाय कोंकणानां, निष्का

तुरुष्कानां चूडनाय गौडानां, तरलाय चोलानां, काचीगुणाय

पाञ्चालानाम् अन्येषामपि भूभुजां वदान्याग्रणीस्स भिक्षुः प्रादिक्षत् ।
 
</p>
</page>