This page has not been fully proofread.

<page>
<ignore lang="sa">
षष्ठोल्लासः
 
</ignore>
<verse lang="sa">
तत्र भूपश्शरत्काले राजहंसमिवांबुजे ।

स्वर्णपीठे स्वयं दत्ते व्यासभिक्षुं न्यवेशयत् ॥
 
</verse>
<verse lang="sa">
अहमहमिकयेव स्वामिपादारविन्द-

प्रणतविबुधयूथैस्सालहल्लोहलश्रीः ।

प्रहतकुशलवाया प्रांतधावत्पुरोधाः

क्षणमजनि सभा सा कौतुकेनेव सृष्टा ॥
 
</verse>
<verse lang="sa">
तत्र स्फुरन्मकुटकोटिषु बिम्बरूपं तं

योगिनं सरसिजासनमेव बुद्धा ।

उन्मस्तकीकृतकरांजलिवारिजानि
 

तस्मै नृपावलिरिवासनयांचकार ॥
 
33
 
73
 
</verse>
<p lang="sa">
तदनु सकलदिङ्मुखमुखरीकरणनिपुणताधुर्येषु मङ्गलतूर्येषु

भक्तिविनयपरमानन्दकन्दलितसुहृदयेषु राजनिचयेषु, समापितसकल-

संविधानसंपादकृत्येषु अमात्यभृत्येषु, निरंतरोद्धुष्यस्वस्त्ययनसूक्तपदवी-

समापितेषु
पुरोहितेषु, निरवद्यविद्यावैभवश्लाघाकंपमानशिरस्सु
 
समापितेषु
 

सुमनस्सु, परिसरपापठ्यमाननानावादविजयबिरुदावलिपक्ष्मलितचाटुप्र-

पञ्चेषु कविसंचयेषु, आकौमारचरितारंभगंभीरयशस्तुतिकृतकेलिकेषु

विस्मयस्मितपक्ष्मपुटलोचनेषु पौरजनपदेषु, स किल कृष्णमहीपालः

स्वयमेव करकमलेनादाय कनककुंभमिमं भगवंतं व्यासतापसमादरान्म-

णिभिरभिषेक्तुमारभत ।
 
</p>
<verse lang="sa">
तं व्यासभिक्षुं सकलैस्सरत्नैर्भूपोऽभिषिञ्चन् पुरतो बुधानाम् ।

वाराशिपुत्रीमकुटाग्रभागमाशावशानाथ इवाबभासे ॥
 
</verse>
<verse lang="sa">
शास्त्रार्णवाः षडपि तेन सुखेन पीताः

श्रीव्यासयोगपतिनेति चिराय भीता ।
 
</verse>
</page>