2026-01-24 16:19:40 by akprasad
This page has not been fully proofread.
<page>
<ignore lang="sa">72
</ignore>
<ignore lang="sa">श्रीव्यासयोगिचरितम्
</ignore>
<verse lang="sa">घंटास्वनो मध्वमतद्विपस्य त्रयीमयीतिस्तनयित्नुघोषः ।
तस्याथ तालध्वनिरुज्जजृंभे श्रीव्यासभिक्षोश्शिबिकापुरोगः ॥
</verse>
<verse>यां यामतीत्य स मुनिर्विशिखामयासीत्सा
सा समुत्थितजनांजलिराजपूर्णा ।
उन्नालदण्डसरसीरुहकुट्मलानां
साधर्म्यकेलिमतनिष्ट शरनदीनाम् ॥
</verse>
<verse lang="sa">राज्ञां सभां क्षौमवितानयुक्तां व्यराजयद्वयासयतीश्वरोऽसौ ।
शरत्पयोदावलिसंकुलां तामाकाशसीमानमिवाब्जबंधुः ॥
</verse>
<verse lang="sa">तस्मिन्नृपस्सविधमागत इत्यमात्यैस्साकं
सभांगणतलात्त्वरितैरुदस्थात् ।
पूर्वाचलाश्रयिणि पूषणि
पद्मवाटात्सौरभ्यपूर इव चञ्चलचंचरीकैः ॥
</verse>
<p lang="sa">उत्थाय स निखिलैस्सामंतमहीपालैर्झडिति सीमंतितोपांतसरणिं
नरपतिरात्मानमनुकंपयानुग्रहीतुमापतंतं, कमलबंधुभवनवापिकासतीर्थ-
मिव कनकचतुरंतयानपरार्ध्यमध्यमध्यासीनं, कालांजनरसनिर्णेजनसं-
स्क्रियासमुन्मिषिताक्षरमणिवेदिकायां करकमलमधुपधोरणिकायामिव
पुस्तकविभागरेखायां निभृतनिक्षिप्तचक्षुषं नासिकानालभागप्रतिफलिते-
नेव नयनयुगलेन स्वच्छतरोपलोचनगोलकेनानुमितवार्धकदशातिशयं
धर्मशास्त्रभूषकवरवालहस्तेनेव धवलचामरिकायुगलेन पार्श्वतः परिवीज्य-
मानं, वैदिकसरणीनर्तनचरणमणिमंजीरशिंजितैरिव पुरतस्सरै:
कनकतालध्वनिभिस्सुरपथकटाहं तुंदिलयंतं, मध्वमुनीन्द्रप्रकरणैरिव
मूर्तिमद्भिः शिष्यैर्ब्रह्मसंघैरासेव्यमानपरिसरं तं भगवंतं यतिकुंजरं
सरभसमुपसृत्य तच्चरणनखमणिकिरणराजिघ्रामग्रिमभागेन किरीटिनाम-
हतीमनन्यसुलभां धन्यतामाजहार ।
</p>
</page>