2026-01-24 16:19:15 by akprasad
This page has not been fully proofread.
<page>
<ignore lang="sa">पष्ठोल्लासः
</ignore>
<heading lang="sa">॥ षष्ठोल्लासः ॥
</heading>
<verse lang="sa">अन्येद्युरेव नृपतिप्रहितः
पुरोधास्साकं प्रधानपुरुषैः सचिवैरुपेत्य ।
तं व्यासयोगिनममुं तपसां
निधानं व्यज्ञापयद्विनयभावविनम्रमौलिः ॥
</verse>
<p lang="sa">भगवन्निदानीं खलु–
</p>
<verse lang="sa">स तु नृपतिरमात्यैस्सार्धमास्थान-
मागाद्वलभिषु विशिखानां वैजयंत्यो निबद्धाः ।
तरलनवसुपुष्पास्सर्वतो राजमार्गा
गगनतलमशेषं गाहते तूर्यघोषः ॥
71
</verse>
<verse lang="sa">स्वामिन् भवंतं स्वयमद्य रत्नैराकांक्षते भूरमणोऽभिषेक्तुम् ।
कूटाग्रभागं कुलभूधरस्य प्रसूनजातैरिव पारिजातः ।
</verse>
<verse lang="sa">तं भक्तिपल्लवितमागमनोत्सवेन
स्वामिन् प्रसीद बहुमंतुमपारकीर्ते ।
पुष्पांजलि: प्रतिकलं भगवन्नरस्य
कोणेऽपि यः कलयते कुलदैवभावम् ॥
</verse>
<p lang="sa">एवंकारं तेन पुरोध : प्रधानेन
संप्रार्थ्यमानस्स भगवान्
व्यासतपोनिधिः क्षणं विचिंत्य भक्तवत्सलतया करुणामसृणहृदयः
सभाजिगमिषया मणिबृसीवरादुदस्थात् ।
</p>
<verse lang="sa">गोविंदतापसमुखैः कुशलाग्रगण्यैरंते
वसद्भिरखिलैरनुगम्यमानः ।
मन्दं मठात्स निरगाद्वदनारविंदा-
द्वेदैः पुरस्कृत इव प्रणवो विधातुः ॥
</verse>
</page>