This page has not been fully proofread.

पष्ठोल्लासः
 
॥ षष्ठोल्लासः ॥
 
अन्येद्युरेव नृपतिप्रहितः
 
पुरोधास्साकं प्रधानपुरुषैः सचिवैरुपेत्य ।
 
तं व्यासयोगिनममुं तपसां
 
निधानं व्यज्ञापयद्विनयभावविनम्रमौलिः ॥
 
भगवन्निदानीं खलु–
 
स तु नृपतिरमात्यैस्सार्धमास्थान-
 
मागाद्वलभिषु विशिखानां वैजयंत्यो निबद्धाः ।
 
तरलनवसुपुष्पास्सर्वतो राजमार्गा
 
गगनतलमशेषं गाहते तूर्यघोषः ॥
 
71
 
स्वामिन् भवंतं स्वयमद्य रत्नैराकांक्षते भूरमणोऽभिषेक्तुम् ।
कूटाग्रभागं कुलभूधरस्य प्रसूनजातैरिव पारिजातः ।
 
तं भक्तिपल्लवितमागमनोत्सवेन
 
स्वामिन् प्रसीद बहुमंतुमपारकीर्ते ।
 
पुष्पांजलि: प्रतिकलं भगवन्नरस्य
 
कोणेऽपि यः कलयते कुलदैवभावम् ॥
 
एवंकारं तेन पुरोध : प्रधानेन
 
संप्रार्थ्यमानस्स भगवान्
 
व्यासतपोनिधिः क्षणं विचिंत्य भक्तवत्सलतया करुणामसृणहृदयः
 
सभाजिगमिषया मणिबृसीवरादुदस्थात् ।
 
गोविंदतापसमुखैः कुशलाग्रगण्यैरंते
वसद्भिरखिलैरनुगम्यमानः ।
 
मन्दं मठात्स निरगाद्वदनारविंदा-
 
द्वेदैः पुरस्कृत इव प्रणवो विधातुः ॥