This page has not been fully proofread.

70
 
70
 
श्रीव्यासयोगिचरितम्
 
दूरीकृताह्निकमपृच्छदथेंगितज्ञो
 
योगीशिता नवसदागमनस्य पातुम् ॥
 
तुष्यन्नभीष्टां स्वयमेव पृच्छां व्यातन्वते व्यासयतीश्वराय ।
कृत्वाऽजलिं कृष्णधराधिनाथो विज्ञापयामास विनीतपूर्वम् ॥
 
स्वामिन् प्रतिभटवादिविजयेषु भगवद्वचोभिः पलायितमिव स्वदेशे
गूढं विचरत् सच्छास्त्रं सुत्रामजालस्य, प्राणभूतं मायामतस्य,
तत्त्वं व्यामोहकशब्दाभिधेयस्य, भूमिमनृतस्य, दुष्टपक्षं बंधिग्राहमिव
गृहीत्वा शुकनीडाकारायां पुस्तिकायामाबध्य विद्याधरपात्रनामा
कलिंगाधिपतिः कैश्चिदहंयुभिः विपश्चिद्भिः प्रबलितोत्साहो भगवते
व्यासयोगिने प्रदर्शनीयो दुस्तरयुक्तिभिस्सह विस्तारितोऽयं महान्
ग्रंथ इति स्वसेनापतिकरे मह्यं प्रैषिषत् । तदवश्यं तमेनं कतिपयैर्दिनैरेव
दुर्लंघ्याभिर्वचोयुक्तिभिर्भगवान् शरद्बलाहकमिव झंझाभिश्शकलीकर्तुम-
र्हतीति पुस्तकां सन्निधौ संदर्शयामास । व्यासतपोनिधिरपि तामादाय
रहसि सूचितविमतमतावमतिः पुरस्तादेव भूभृतस्तस्य मुहूर्तमात्रे
बह्वीभिरतिवज्ज्रपाताभिरुपरिदूषणानवकाशप्रदायिनीभिर्युक्तिपरांपराभिः
शतशः खण्डयित्वा पुनरपि कलिंगाधिपतये झडिति ग्रंथमेनं प्रेषयेति
तस्मै भूपतये प्रादात्।
 
विलोक्य वाचां विभवं तदीयं विशेषतो विस्मयमानचेताः ।
कृष्णक्षितींद्रः कृतसंप्रणामस्तस्मादनुज्ञाप्य सगेहमाप ॥
 
यावंतो विषयाहृता भुजबलं यावत्सपत्ना जिता
 
यावंतश्च वदान्यता करसरोजाताश्रया यावती ।
यावत्यो धनसंपदो गुणगणो यावांश्व यावद्यश
स्तावत्कर्तुमियेष पूजनमसौ श्रीव्यासभिक्षोर्नृपः ॥
 
॥ इति सोमनाथकविविरचिते व्यासयोगिचरिते पञ्चमोल्लासः ॥
 
XXX