2026-01-24 16:17:40 by akprasad
This page has not been fully proofread.
<page>
<ignore lang="sa">पञ्चमोल्लासः
</ignore>
<ignore lang="sa">69
</ignore>
<ignore lang="sa">69
</ignore>
<p lang="sa">कमलिनीबंधुं ऐरावतकुंभपीठभास्वरमिव सिंदूरतिलकं कैलासशैलमेखला-
प्रतिफलितमिव कनकगिरिशृंगं, पुरस्कृतयतिकुलानां पुस्तकविभागालंकृ-
तपाणितलानां वाग्वैखरीनिराकृततया शरणागतानामुत्तुंगानामिव
सरस्वतीसुरसरित्पूराणां संख्यावतामप्यगणनापदानां कर्मठानामप्यनिवा-
र्ययोगानां गृहमेधिनामंतेवासिनां वेदशिखरार्थतत्त्वं व्याकुर्वंतं
मध्वमतविजयशंखायमानेन कण्ठनालघुमघुमितेन कालमेघमिव गर्जितेन
गगनकटाहमापूरयंतं वामेतरश्रवणावाणीवलंबिमौक्तिकाक्षसूत्रेण चक्रवा-
कावसज्जितमृणालिकावलयेन नालीकेन वदनेन भासमानं राद्धांतनिर्णय-
प्रकाशिकया व्याख्यानमुद्रिकया स्पृष्टजन्माभ्यासेनाप्यन्यसूरयः
भवद्भिरेतावदपि सादृश्यं न भजेरन्निति शिष्यान् प्रतिगणनास्तचक्रमिव
प्रकाशयंतं जानुभागनियंत्रितयोगपट्टिकया व्यत्यस्तचरणतया तपनीयवे-
णुकाण्डघटितमिव सरस्वतीपीठं तं भगवंतं व्यासयोगिनं रभसादासाद्य
विश्लथकेशस्तदनंतरं कर्णिकामुकुलचिह्नितकर्णविवरस्कंधावसक्तचर्मकः
खर्वपर्वदण्डः कालायसनिर्मितेनेव
कालायसनिर्मितेनेव कर्कशेनातिप्रमाणेन
कर्कशेनातिप्रमाणेन वपुषा
लक्ष्यमाणः दौवारिको रचितांजलिरानमय्यपूर्वकायं प्रश्रयेण दूरतः
स्थितो व्यजिज्ञपत् ।
</p>
<verse lang="sa">द्वारि कृष्णनृपतिस्समेत्य सस्वामिनः सहपुरोहितादिभिः ।
दर्शनावसरमीक्षतेऽधुना पाकशासन इवाब्जजन्मनः ॥
</verse>
<verse lang="sa">तावत्प्रवेशनविधौ गुरुणा नियुक्त-
शिष्यैरुपेत्य विहितावसरः प्रधानः ।
भक्तया नृपो भगवतः पदपद्मयुग्मविन्यस्त-
मौलिमवनौ नमयांचकार ॥
</verse>
<verse lang="sa" merge-next="true">भूपस्त्वथोपचरितं पुलकोदयश्रीः
स्पष्टीभवद्विपुलभक्तिरसप्रचारम् ।
</verse>
</page>

कालायसनिर्मितेनेव
कर्कशेनातिप्रमाणेन