This page does not need to be proofread.

<page>
<p>
iv
 

इति । एतेन '&apos;श्रीवेङ्कटेशकाव्यकलापः इति नाम्न औचित्यं प्रख्यापितम् ।
 

श्रीवेङ्कटाध्वरिणः कृतौ श्रवणानन्दे शतकचतुष्टयमुपलभ्यते । त

प्रथमं द्वितीयं च श्रीनिवासविषयम् । अनयोरा मैसूर - श्रीमन्महाराजसंस्कृत

महापाठशालापत्रिकायां खण्डशो मुद्रितपूर्वम् । तथाऽपि मनसालक है. श्री. उ.

कवितार्किकसिंह गोविन्दाचार्यैरुपकृतस्य परिष्कृतस्य मातृकाविशेषस्य, अत्रैवास्मत्पुस्त

कालये स्थितस्य मातृकान्तरस्य च पर्यालोचनेन बहुषु स्थलेषु समीचीनपाठान

रनिवेशनादिरूपपरिष्कारकरणस्यावश्यकत्वप्रतिभानात् द्वितीयशतकस्य अन

एकस्मिन् लिखितकोशे उपलभ्यमानस्य अवश्यमुद्रणीयत्वे आदित एव मुद्रण

औचित्यप्रतीतेश्च तदप्यत्रान्तर्भावितम् । शतकाभिधानस्यापि द्वितीयभागस्य चतु

शीतिरेव श्लोका उपलभ्यन्ते । '&apos; इति द्वितीयशतकम्'&apos; इति समाप्तिवाक्यं

दृश्यते । किञ्चिन्यूनमप्यन्यूनप्रायमिव ।
 

अत्यायां मातृकायां तृतीयमपि शतकं शिथिलमलिनपत्रं अन्ते त्रुटि

कतिपयश्लोकमुपलभ्यते । तत्तु श्रीराधयविषयमिति पृथक् यथासौकर्यं पश्चान्म

यिष्यते । चरमं चतुर्थं शतकं श्रीवरदराजविषयं आन्ध्रलिप्यां भाषानुवादस

श्री. उ. वे. गोविन्दाचार्यैः प्रकाशितम् ।
 

इहान्ते योजिता श्रीनाममौक्तिकमाला अमुद्रितपूर्वा । अस्या मातृ

मद्रराजकीयप्राच्यलिखित पुस्तकशालाप्रधानपण्डितेन '&apos;विदुषा'&apos; श्री. टि.

कटाचार्येण चिरात् स्वस्मिन् रक्षिता अत्र प्रकाशनाय सादरमर्पिता । अस्याः

साक्षात् यामुनाचार्य इति आरम्भे कृतेन निर्देशेन तद्विषय '&apos;तनियन्'&apos; श्लोकपा

च प्रतीयते । परन्तु अस्याः कृतेः स्वरूपं पर्यालोचयन्तः श्रीयामुनाचार्यकृत

प्रबन्धानामष्टत्वेन आचार्यचरणैः कृतं परिगणनं स्मरन्तश्च न वयमत्र संशयमतिवर्ताम
 

अत्र चरमे तृतीये भागे मुद्रितं दशोपनिषद्भाष्यकार श्रीरङ्गरामानुजमु

विरचितं श्रीशठकोपगाथाव्याख्यानं ग्रन्थाक्षरैर्मुद्रितपूर्वम् । न तु कचिन्नागराक्ष
 
</p>
</page>