This page does not need to be proofread.

<page>
<p>
iii
 

विहारं अचलवर्णनं चन्द्रादिवर्णनम्, वायुनिन्दा कोकिल-

निन्दा चन्द्रनिन्दा मन्मथोपालम्भनं मन्मथस्तुतिः राजानं

प्रति शुकप्रेषणं राजमहिषी समागमं (मः) भगवदनुग्रहं (हः)

इत्यादिकं पुनः पुरवर्णनं गिरिवर्णनं च गद्यरूपेण कृत्वा
 
........ .......
 

........ .......
काव्यं परिसमाप्य पुनरपि ....

पर्याप्तामृतत्वात् स्तोतुकामः.....
 
"
 

&quot;
भगवन्नान्ना[म]
 

इति । अनेन न परं श्रीनिवासगुणाकरप्रतिपाद्यविषयविज्ञानं स्थूलमस्माकं भवति

अपितु य एव मायावादिमदगजकण्ठीरवो रामानुजसूरिः व्याख्यानस्य सिद्धानस्य

कर्ता स एव साक्षात् मूलस्य श्रीनिवासगुणाकरकाव्यस्यापि कर्तेत्यपि निश्चयो भवति ।

सुबोधिनीनामकं श्रीभाष्यार्थसंग्रहरूपं ग्रन्थान्तरमप्यनेन कृतमस्ति यस्यैकदेशः

अस्यां पुस्तकशालायां रक्ष्यते । अस्य अभिजनः '&apos;तिरुमळिशै'&apos; इति प्रसिद्धं स्थल-

मेति च ज्ञायते । अस्य रामानुजसूरेः अनुजः कश्चिदासीद् वेङ्कटार्थो नाम । तस्य

लोऽयं वरदाचार्य इत्यपि अस्यैवोक्तयाऽवगम्यते । लालित्यलिप्सया व्याख्यानान्तर-

करणेऽस्य प्रवृत्तिरिति भाति । परन्तु उपलब्धेऽस्मिन् व्याख्याने शब्दाशुद्धयो बहुलं

दृश्यन्ते । तासां कात्स्न्येन शोधनस्याशक्यत्वात् व्याख्यानं विना मूलस्य शैलीका -

ठेन्येन दुरधिगमार्थत्वात् व्याख्यानान्तरस्य मध्येमध्ये ग्रन्थपातेन दुस्थितत्वाच्च

येण यथास्थितं इदमेव व्याख्यानमिह आहतम् । अत्रत्यं शैलीकाठिन्यं, पदेपदेऽ-

मेव्यज्यमानं कर्तुर्गाढं तीक्ष्णं विपुलं च पाण्डित्यं, अतिशयितमुत्प्रेक्षाकौशलं च

रस्माकं नैषधीयचरितकारस्य श्रीहर्षस्य स्मृतिं जनयन्ति । एवं नारिकेलपाकित्वेऽपि

मत्कारातिशयस्य जायमानत्वात् काव्यत्वमिह सुस्थितम् । अत्र मुद्रितस्य उज्ज्वल-

नाथस्तोतव्याख्यानस्य कर्तारः श्री. उ. वे. पुरिशै कृष्णमाचार्या एवमाहु:---
 
"

&quot;
स्तोत्रं चेदं
 

श्रीमदुज्ज्वलवेङ्कटनाथविषयकरतिभावस्य
 

 


प्राधान्येन व्यज्यमानत्वात् ध्वनावन्तर्भवति । रतिभावानु-

गुण्येन ज्ञानशक्त्यादीनां कल्याणगुणानामभिव्यज्यमानत्वात्

तदंशे गुणीभूतव्यङ्गयताऽपि । सर्वेष्वपि स्तोत्रेषु'&apos; इयमेव

रीतिरनुसर्तव्या । "
 
&quot;</p>
</page>