This page does not need to be proofread.

<page>
<p>
अ स्ता व
 

भगवन्तं वेङ्कटाचलाधीश्वरं श्रीनिवासं विषयीकृत्य प्रवृत्ताः काश्चन कृतयः

श्रीवेङ्कटेशकाव्यकलाप'&apos; नाम्ना इह सङ्कलय्य प्रकाश्यन्ते । एवमेतत्प्रकाशनं कर्तव्य-

ते मतिः प्रथमं, अस्य विमर्शालयस्य द्वितीयनेतृ (डैरेक्टर् ) भूतानाम् अद्य

र्तिशेषाणां सरस्वतीहृदयालङ्कारादिबहुविरुदभाजां एम्. कृष्णमाचार्याणाम् एतत्स्थान-

चिरात् पूर्वमेव अभूत् । तदुपक्रमस्तु अत्र आगतानां तेषां सुकर आसीत् ।

पि मुद्रितपूर्वा अमुद्रिता वा प्राचीनैः कृता अद्यतनैर्वा सर्वा एव श्रीवेङ्कटेशविषयाः

योऽत्रान्तर्भावनीया इति तेऽमन्यन्त तथाऽपि स महानुद्देशो ऽनन्तरं परित्यक्तव्य

तत् यस्मात् पत्रदुर्भिक्षं तथा महत् ।
 

त्रिभागेऽस्मिन् सङ्कलने आधे भागे निवेशिताश्चतस्रोऽपि कृतयः पूर्वं

वा मुद्रिताः । तथापि तासां प्रत्यहं भगवतः सन्निधौ अनुसन्धीयमानत्वात् तत्र

नामादरः स्यादिति, तदनन्तर्भावे अस्य प्रकाशनस्यैव न्यूनता प्रायः सर्वैरुद्भाव्येतेति

भिप्रेत्य ता इह नोपेक्षिताः ।
 

द्वितीयभागे दयाशतकं श्रवणानन्दे प्रथमशतकं पद्मावतीगद्यं श्रीनिवास गद्यम्

तच्चतुष्टयवर्जं सर्वमन्यदिदम्प्रथमतया मुद्रितम् । तत्र एकद्वानि विना स्तोत्रान्त-

सर्वाणि मद्रराजकीयलिखित कोशागारे रक्ष्यमाणानां मातृकाणां प्रतिरूपं
 

मुद्रितानि । एतदर्थं संविधेयं सर्व श्री एम्. कृष्णमाचार्यैस्तज्जीवितकाल

संविहितम् । एषु श्रीनिवासगुणाकरस्य नवतिशतमेव श्लोका उपलब्धाः ।

चरमान् सप्त वर्जयित्वा इतरेषां सर्वेषां प्रति श्लोकमधस्ताल्लिखितं व्याख्यानमप्यु-

धम् । तस्योपक्रमे निर्देशात् एतव्याख्यानकारस्य वरदाचार्य इति नामधेयमिति

ते । अनेन विस्तरस्तु सिद्धाजने द्रष्टव्यः'&apos; इत्यादिरीत्या सिद्धाजननामा

ग्रन्थों निर्दिश्यते ।
 
</p>
</page>