This page has not been fully proofread.

२८०
 
श्रीवेंकटेशकाव्यकलापे
 
स्वद्रव्यापहारापराधकारिणमनुं मां हे रमाधव कुठोऽक्षरे श्रीवैकुण्ठे मा प
 
"
 
पातयसि ॥ १८४ ॥ ]
 
बालं कर्मपिताप्यकार्यशतकं कृत्वाप्यदोपोऽवति
 
स्वं ततोऽनुपधिः स्वराडशरण दीनं जढं माममुम् ।
मर्यादामनवप्रमाणगदितानुत्सृज्य वा पासि चेत्
 
का ते हानिरनीडशेषु भवतात् सा सर्वविच्छ्रीनिधे ॥
 
[ज्ञानाद्युपायाहीनं न रक्षामीति मर्यादामुत्सृज्यापि मां पाहीत्याह-बा
हे सर्ववित् सर्वज्ञ श्रीनिधे श्रीनिवास कर्मपिता 'कर्मणा पितृत्वं प्रा
एवोपाधिको लौकिकः पिताऽपि अकार्यशतकं अत्यन्त जुगुप्सितम् । निन्दार
कृत्वाऽपि अदोषः खन् बाळं स्वपुलम् अवति ।
 
वृद्धी च मातापितरी साध्वी भार्या सुतः शिशुः ।
 
अप्यकार्याशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥
 
1
 
इति हि स्मर्यते । अनुपधिः निरुपाधिकः तातः पिता स्वराट् स्वतन्द
अशरण दीने जडममुं माम् न नवं अनवम् पुरातनम् नित्यं प्रमाणं ये
गदिताम् उक्काम मर्यादां 'नान्यः पन्थाः इत्येवंरूपां मर्यादा व्यवस्थाम्
त्यक्ताऽपि पासि रक्षसि चेत् का ते हानिः किमवयं तव स्यात् । म
प्रमाणमप्रमाणं भवतीति इदमेवायथमिति चेत् अत्राह अनीदृशेष्विति । सा
अनीदृशेषु अहं यथा सर्वात्मनाऽशक्तः तथा ये न भवन्ति तेषु भवतात्
भवतु । तथा च नाप्रामाण्यमिति भावः ॥ १८५ ॥]
 
मर्यादामवधीर्य चक्रधरो विप्रात्मजानक्षरं
 
धामारोप्य पुनर्द्विजाय समदास्तात्समानीय तान् ।
घण्टाकर्णमुखद्विपः समनयो मुक्ति परां श्रीनिधे
 
सन्त्यन्यानि निदर्शनानि च शतं मय्येव सा पान्यते ॥ १