This page has not been fully proofread.

श्री वेंकटेशकाव्यकलापे
 
निर्दोषो न भवर्द्विधा श्रुतिशतोत्सादस्तथान्यश्रुतेः
 
सिध्येनैव किमप्यतः परममुं रक्षाखिलाघत्रजात्
 
दुःखमनान्मां रक्षेत्याह-दुःखमिति ॥ शरणागतं शारणागति
भजति चेत् प्राप्नोति चेत् क्रन्दामि आक्रोशामि तद्दर्शिनः मक्क
तत् दुःखं न स्वाद्यदि न भवेद्यदि दयया कृपया वर्जितः विरहितः
ते तब तत् दया (दुःखं भवेद्यदि स्याद्यदि निर्दोषः दोषरहितः
( न भवेः) । द्विधा [' दयारहितत्वे'] निर्दोषत्वरहितत्वे [च]
दयालुत्व[' निर्दोषत्व ']प्रतिपादकश्रुतेः उत्सादः निरर्थकत्वं स्यात् ।
प्रकारेण अन्यश्रुतेः कारणत्वादिश्रुतेरपि किमपि किञ्चिदपि नैव सि
स्वद्विषयकप्रमाणाभावापत्त्या अखिलानां समस्तानां अघानां पापानां
अमुं मां एतादर्श मां रक्ष रक्षां कुरु ॥ १७४ ॥
 
वाचामगोचरमनन्तमनन्यनिष्ठं
 
श्रुत्यादिसिद्धमनिशं गुणमण्डलं ते ।
आच्छाद्यपूर्वमिदमेव ममापि चित्रं
 
अस्यैकदैव हि विरुद्धभयाभये स्तः ॥ १७५
 
मदोषदर्शनाद्भयं त्वद्गुणदर्शनादभयं भवतीत्याह याचामिति ॥ ६
अगोचरं अविषयं अनन्तं असंख्यं अन्येषु ब्रह्मरुद्रादिषु निष्ठं न भवती
श्रुत्यादिषु वेदादिषु सिद्धं निष्ठमित्यर्थः । ते भवतः गुणमण्डलं वा
समूह एव मम दासस्य अपूर्वं पूर्व कदाप्यजाते अकारपूर्वकं च अगुण
समूहं आच्छादि पिहितवानित्यर्थः । इदं मे चित्रे आश्चर्यमित्यर्थः
विरुद्धे भयाभये एकदैव एक कालावच्छेदेनैव स्तः । मद्दोषदर्शनात्
भयभयं भवतीत्यर्थः ॥ १७५ ॥
 
1. नात्र शब्दोऽतो वा किमपि साक्षात् रयतेति पूर्व
सूपाठो भवेत् ।