2026-03-08 05:41:56 by ambuda-bot
This page has not been fully proofread.
॥ श्रीवेंकटेशमङ्गलाशासनम् ॥
श्रीवादिभीकरमहागुरुभिरनुगृहीतम्
1000000
श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्री वेंकटनिवासाय श्रीनिवासाय मङ्गलम् ॥ १ ॥
लक्ष्मीसविभ्रमालोकसुभ्रूविभ्रमचक्षुषे ।
चक्षुषे सर्वलोकानां वेंकटेशाय मङ्गलम् ॥ २ ॥
श्री वेंकटाद्रिशृङ्गाग्रमङ्गलाभरणांप्रये ।
मङ्गलानां निवासाय वेंकटेशाय मङ्गलम् ॥ ३ ॥
सर्वावयवसौन्दर्यसंपदा सर्वचेतसाम् ।
सदा संमोहनायास्तु वेंकटेशाय मङ्गलम् ॥ ४ ॥
नित्याय निरवद्याय सत्यानन्दचिदात्मने ।
सर्वान्तरात्मने श्रीमद्वैकटेशाय मङ्गलम् ॥ ५ ॥
स्वतस्सर्वविदे सर्वशक्तये सर्वशेषिणे ।
सुलभाय सुशीलाय वेंकटेशाय मङ्गलम् ॥ ६ ॥
परस्मै ब्रह्मणे पूर्णकामाय परमात्मने ।
प्रयुजे परतत्त्वाय वेंकटेशाय मङ्गलम् ॥ ७ ॥
आकालतत्त्वमश्रान्तमात्मनामनुपश्यताम् ।
अतृप्त्यमृतरूपाय वेंकटेशाय मङ्गलम् ॥ ८ ॥