This page has not been fully proofread.

१०
 
श्री वेंकटेशकाव्यकलापे
 
ताम्रोदरद्युतिपराजितपद्मरागौ
बाधैर्महोभिरभिभूतमहेन्द्रनीलौ ।
उद्यन्नखांशुभिरुदस्तशशांकभासौ
 
श्री वेंकटेशचरणौ शरणं प्रपद्ये ॥ ६ ॥
 
सप्रेमभीति कमलाकरपल्लवाभ्यां
संवाहनेऽपि सपदि कममादधानौ ।
कान्ताववाङ्मनसगोचरसौकुमार्यौ
श्री वेंकटेशचरणौ शरणं प्रपद्ये ॥ ७ ॥
 
लक्ष्मी महीतदनुरूपनिजानुभाव-
 
नीला दिदिव्यमहिषीकरपल्लवानाम् ।
आरुण्यसंक्रमणतः किल सान्द्ररागौ
श्रीवेंकटेशचरणौ शरणं प्रपद्ये ॥ ८ ॥
 
नित्यानमद्विधिशिवादिकिरीटकोटि-
प्रत्युप्तदीप्तनवरत्नमहः प्ररोहैः ।
नीराजनविधिमुदारमुपादधानौ
 
श्रीवेंकटेशचरणौ शरणं प्रपद्ये ॥ ९ ॥
 
विष्णोः पदे परम इत्युदितप्रशंसौ
 
यौ मध्य उत्स इति भोग्यतयाऽप्युपात्तौ ।
भूयस्तथेति तव पाणितलप्रदिष्टौ
 
श्री वेंकटेश चरणौ शरणं प्रपद्ये ॥ १० ॥
 
पार्थाय तत्सदृशसारथिना त्वयैव
 
यौ दर्शितौ स्वचरणौ शरणं व्रजेति ।