2026-03-08 05:41:55 by ambuda-bot
This page has not been fully proofread.
॥ श्रीवेंकटेशप्रपत्तिः ॥
श्रीवादिभीकरमहागुरुभिरनुगृहीता
ईशानां जगतोऽस्य वेंकटपतेर्विष्णोः परां प्रयसी
तद्वक्षस्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम् ।
पद्मालंकृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं
वात्सल्यादिगुणोज्जवलां भगवतीं वन्दे जगन्मातरम् ॥
श्रीमन् कृपाजलनिधे कृतसर्वलोक
सर्वज्ञ शक्त नतवत्सल सर्वशेषिन् ।
स्वामिन् सुशील सुलभाश्रितपारिजात
श्री वेंकटेश चरणौ शरणं प्रपद्ये ॥ २ ॥
आनू पुरार्पित सुजातसुगन्धिपुष्प-
सौरभ्यसौरभकरौ समसन्निवेशौ
सौम्यौ सदानुभवनेऽपि नवानुभाव्यौ
1
श्री वेंकटेशचरणौ शरणं प्रपद्ये ॥ ३ ॥
सद्यो विकासिसमुदित्वरसान्द्रराग-
सौरभ्यनिर्भरसरोरुहसाम्यवार्ताम् ।
सम्यक्षु साहसपदेषु विलेखयन्तौ
श्रीवेंकटेशचरणौ शरणं प्रपद्ये ॥ ४ ॥
रेखामयध्वजसुधा कलशातपत्र-
वज्रांकुशाम्बुरुह कल्पकशङ्खचक्रेः ।
भन्यैरलंकृततली परतत्त्वचिद्वैः
श्री वेंकटेशचरणौ शरणं प्रपद्ये ॥ ५ ॥
N
श्रीवादिभीकरमहागुरुभिरनुगृहीता
ईशानां जगतोऽस्य वेंकटपतेर्विष्णोः परां प्रयसी
तद्वक्षस्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम् ।
पद्मालंकृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं
वात्सल्यादिगुणोज्जवलां भगवतीं वन्दे जगन्मातरम् ॥
श्रीमन् कृपाजलनिधे कृतसर्वलोक
सर्वज्ञ शक्त नतवत्सल सर्वशेषिन् ।
स्वामिन् सुशील सुलभाश्रितपारिजात
श्री वेंकटेश चरणौ शरणं प्रपद्ये ॥ २ ॥
आनू पुरार्पित सुजातसुगन्धिपुष्प-
सौरभ्यसौरभकरौ समसन्निवेशौ
सौम्यौ सदानुभवनेऽपि नवानुभाव्यौ
1
श्री वेंकटेशचरणौ शरणं प्रपद्ये ॥ ३ ॥
सद्यो विकासिसमुदित्वरसान्द्रराग-
सौरभ्यनिर्भरसरोरुहसाम्यवार्ताम् ।
सम्यक्षु साहसपदेषु विलेखयन्तौ
श्रीवेंकटेशचरणौ शरणं प्रपद्ये ॥ ४ ॥
रेखामयध्वजसुधा कलशातपत्र-
वज्रांकुशाम्बुरुह कल्पकशङ्खचक्रेः ।
भन्यैरलंकृततली परतत्त्वचिद्वैः
श्री वेंकटेशचरणौ शरणं प्रपद्ये ॥ ५ ॥
N