This page has been fully proofread once and needs a second look.

॥ श्रीः ॥
 

उपोद्घात:
 

 
महामहिमशालिन: "टिप्पण्याचार्य चक्रवर्तिन" इति प्रथिताः

श्रीमत्सुमतीन्द्रतीर्थ श्रीमच्चरणा: नैकान् ग्रन्थान् व्यरचयन् ।
 

 
श्रीमत्सुमतीन्द्रतीर्थाः
 
"श्रीरामदण्डक"
 
इति
 

श्रीमूलरामस्तुत्यात्मकं आपादमस्तकवर्णनरूपं ग्रन्थं, तद्व्याख्यानं च चक्रुः

। सव्याख्यः ग्रन्थोऽयं इदंप्रथमतया मुद्रित इति भूयान् सन्तोष: ।
 

ग्रन्थस्यास्य संशोधनकार्ये अधोनिर्दिष्टाः पञ्च हस्तलिखितप्रतयः

उपयोजिताः ।
 

 
१) मन्त्रालय श्रीराघवेन्द्रस्वामिमठीया प्रति:
 

 
२) श्रीगुरुसार्वभौमपूर्वाश्रमवंशीयानां "पण्डितकेसरी'' इति

यथार्थबिरुदभाजां, श्री राजा. एस्. सुज्ञानेन्द्राचार्याणां श्री राजा.

एस्. गिरियाचार्येत्युपनामप्रथितानां "श्रीधीरेन्द्रवाग्विहार"

ग्रन्थालयीया प्रति:
 

 
३) "पण्डितरत्न' "मिति अन्वर्थकप्रशस्तिभूषितानां वैकुन्ठवासिनां

श्रीआचार्य वेङ्कोबाचार्याणां ग्रन्थालयीया प्रतिः ।
 

 
४) विदुषां परमपदभाजां श्रीअर्चक वेङ्कोबाचार्याणां ग्रन्थालयीया

प्रतिः ।
 

 
५) श्री राजा. एस्. पवमानाचार्याणां "श्रीसुजयीन्द्रग्रन्थ भण्डारीया

च प्रतिः ।