This page has been fully proofread once and needs a second look.

यथा चिकित्सकैर्नीरोगाः क्रियन्ते एवं यस्य <error>मकुटरलैस्स्वकान्त्या
</error> <fix>मकुटरत्नैस्स्वकान्त्या</fix>
समीपगतमालिन्यमपनुद्य दिश: प्रकाशिताः क्रियन्ते ता: तादृशाः ॥

 
॥ इति मकुटवर्णनम् ॥
 

 
जानकीति ॥ जानक्या: मङ्गलापाङ्ग: शोभनकटाक्ष एव

कालिन्दिका यमुना तया आसङ्गिनी आसङ्गवती लावण्यमेव गङ्गा

श्रीरामदेवकान्तिरेव गङ्गा तस्यामादृतः सादर: अनङ्ग एव मातङ्गो गजो
 

यस्य तम् ॥
 

 
यथा गङ्गामवगाह्य गजो मज्जेत् एवं भगवलावण्ये स्मरो मन<error>मन</error> <fix>मग्न</fix> इत्यर्थः

। मदनातिशायिसौन्दर्यशालिनमिति यावत् ॥
 
=
 

 
जगतां मङ्गलं श्रीमूलरामदेवं ईडे स्तौमि ॥

गौडरीतिस्फुटाटोपविकटार्थपदोद्भटः ।

सुमतीन्द्रकृतिर्दीप्रानुप्रासो रामदण्डकः ॥
 

 
सतां मौलिषु कोटीरन्वतंसन् कर्णवीथिषु ।

हारन् कण्ठे सरामेण करुणां मयि कारयेत् ॥
 

 
सतां मौलिश्रवः कण्ठकिरीटोत्तंसहारकः ।

रोचतां सौमतीन्द्रोऽयं हरये रामदण्डकः ॥
 

 
इति सर्वतन्त्रस्वतन्त्र श्रीमत्सुमतीन्द्रतीर्थ

श्रीपादविरचित - रामदण्डकव्याख्या सम्पूर्णा ॥

 
॥ श्रीकृष्णार्पणमस्तु ॥
 
23