This page has been fully proofread once and needs a second look.

<bold> * अथ केशवर्णनम् *</bold>
 
कालिकेति ॥ कालिकाया मेघपङ्क्ते: कलङ्के अपवादे अभियुक्तं
सन्नद्धं कैशिकं केशसमूहो यस्य तम् ॥
 
॥ इति केशवर्णनम् ॥
 
<bold>* अथ मुखवर्णनम् *</bold>
 
कालित इति ॥ कालितो निरस्तः आनम्राणां पङ्क:
पापमेवान्धकारस्तस्यालि: पङ्क्तिस्तस्य, अहङ्कारोऽभिमानो, येन स चासौ
हासांशुः स्मितकान्तिस्तेन, सङ्काशि शोभमानं, सज्जन् उद्यन् मृगाङ्कश्चन्द्रस्स
इवाचरत् आननं यस्य तम् ॥
 
॥ इति मुखवर्णनम् ॥
 
<bold>* अथ मकुटवर्णनम् *</bold>
 
काञ्चनेति ॥ काञ्चनश्रियः स्वर्णशोभायाः, कुटुङ्काभ:
विश्रान्तिकुञ्जसन्निभः, कोटीर: मकुटं, तत्र सङ्कनन्ति शोभन्त इति
सङ्कानीनि रत्नान्येवागदंकाराश्चिकित्सकास्तेषां भाभिर्नश्यत् अङ्के समीपे
आस्त इत्यङ्कासिमालिन्यं पङ्क इव मालिन्यपङ्क: एवातिरुक् महारोगो
यस्यास्सा दिशो विटङ्का इव कपोताद्याधारभूतास्तुल्या इव तेषामावलिः
यस्य तम् ॥