This page has been fully proofread once and needs a second look.

<bold>* अथ गण्डद्वयम् *</bold>
 
<error>सममिति</error> <fix>समङ्कमिति</fix>॥ समङ्कं समीपं आगतेन श्रुत्यङ्काराणां
कर्णभूषणानां, भापुञ्जेन कान्तिस्तबकेन, सङ्काचि सम्बध्नत् गण्डद्वयं यस्य
तम् ॥
 
॥ इति गण्डद्वयवर्णनम् ॥
 
<bold>* अथ नेत्रवर्णनम् *</bold>
 
काम इति ॥ कामस्य पूर्वेषु प्रथमशरः कमलं तेन सङ्काक्षिता
सम्प्रार्थिता । अक्षिश्रीनेत्रशोभा यस्य तम् ॥
 
॥ इति नेत्रवर्णनम् ॥
 
<bold>* अथ भ्रूवर्णनम् *</bold>
 
कान्तिरिति ॥ कान्तिर्लावण्यमेव कासार: सरः तत्र सङ्काचतः
शोभमानस्य, उल्लोलस्य महातरङ्गस्य, शङ्काकरं तद्विषयसन्देहदायिभ्रूयुगं
यस्य तम् ॥
 
॥ इति भ्रूवर्णनम् ॥
 
<bold>* अथ ललाटवर्णनम् *</bold>
 
कान्त इति ॥ कान्तो मनोज्ञः, कस्तूरिकाङ्क: कस्तूरी मुद्रा यस्य
स: अलिकं ललाटमेवार्धेन्दुः यस्य तम् ॥
 
॥ इति ललाटवर्णनम् ॥