This page has been fully proofread once and needs a second look.

तं । स्वर्णसन्दानितैर्हेमसम्बद्धैर्दामभिस्स्वर्णसूत्रैर्दापिताभं अर्पितशोभं गलं
बिभ्रतं । शङ्खस्येव पूगकण्ठस्यापि ग्रीवासादृश्यं प्रसिद्धम् । अनुविन्दानेति
विनत्तेस्ताछील्ये चानश् । 'न लोकाव्यये' त्यादिना कारकषष्ठ्या एव
निषेधात् शेषे षष्ठ्या निषेधाभावात् समासः ॥
 
॥ इति कण्ठवर्णनम् ॥
 
<bold>* अथ दन्तपङ्क्तिवर्णनम् *</bold>
 
दास्यभृत: हीनस्य स्वस्मादवरस्य, कौरविन्दाश्मनः
पद्मरागसम्बन्धिनो रत्नस्य, तेज एव मुकुन्दो निधिविशेषः, तस्यापहारे
अत्यमन्दाभ: अतिपटुकान्ति:, दन्तच्छदः अधरो यस्य तं । दादलतां भृशं
विकसतां, कुन्दकुसुमानां आलेः पङ्क्तेः, भागर्वस्य कान्तिमदस्य,
हुन्दायिनी हुङ्कारदायिनी धिक्कारिणी, ततोऽप्यतिशयितेत्यर्थः । दन्तालिः
दन्तपङ्क्तिर्यस्य तम् ॥
 
॥ इति दन्तपङ्क्तिवर्णनम् ॥
 
<bold> * अथ नासावर्णनम् *</bold>
 
कालेति ॥ काले वसन्ते, यच्चाम्पेयं चम्पकपुष्पं, तत्सङ्काशा
नासा यस्य तम् ॥
 
॥ इति नासावर्णनम् ॥