This page has been fully proofread once and needs a second look.

अनुपालयतीत्यनुपाले । पचाद्यच् । रक्षके स्वभक्तजनानां दुःखापनोदने
बद्धकङ्कण इति भावः । एतादृशे भुजयोः प्राञ्चले अन्त्यभागे स्तम्भाविव
भुजस्तम्भौ तयोर्युग्मे युगे अजस्रं निरन्तरमनुरुन्धानानामनुसरतां, लोकानां
जनानां, स्वरंधायितं स्वर्गान्नवदाचरितं अमृतायितमिति यावत् । कर्तुः क्यङ्
सलोपश्चेति स्वरन्धशब्दात् क्यङ् सलोपश्च । अभीपदमभयमुद्राम् ।
धामवद्भूषणं कान्तिमदलङ्करणं च । तथा धारणालाञ्छनं ज्ञानमुद्रां । धारयन्तं
दधतं । स्वयं छात्रा ब्रह्मणा वन्द्यं वन्दनीयम् । अत एव परमुत्तमं तमीडे
इत्युत्तरेणान्वयः ॥
 
॥ इति भुजवर्णनम् ॥
 
<bold>* अथ कण्ठवर्णनम् *</bold>
 
सुललितेति ॥ सुललितस्य सुसुन्दरस्य । नवस्य नूतनस्य । कम्बो:
शङ्खस्य । निन्दासमुत्थाने तद्विषयकोपालम्भारम्भे, कन्दायितायाः
मूलभूतायाः श्रियः सम्पदः समुन्देन उंदनेन क्लेदनेन सम्पर्केणेति यावत्
। "उदि क्लेदन " इति धातुः । अनघेन निर्मलेन । द्योतानां कान्तीनां,
बृन्देन समूहेन, आवृतः युतः स्निग्धस्य श्लक्ष्णस्य दिव्यत्वादिति भावः
। बृन्दारकाणां देवानां आरामस्योपवनस्य सम्बन्धिना मन्दारेण सह संवासस्य
विन्दः लब्ध: 'विदिर् लाभे' अस्मादनुपसर्गाल्लिम्प विन्देति कर्तरि शप्रत्ययः
। 'शेमुचादीना' मिति नुम् । स चासौ अधि अधिक: पूगः अधिपूगः
क्रमुक, तदग्रे भिन्दानस्य भित्वोत्थितस्य कण्ठस्य क्रमुक कण्ठस्य
अभिनन्दः श्लाघा, तदसहाया: आभायाः कान्तेरनुविन्दानां अनुविधायिनीं
शोभां श्रियं, अभिसन्ददाति सम्बध्नातीति तथा तादृशं, रेखात्रयं यस्य