This page has been fully proofread once and needs a second look.

तम् ॥
 

 
नीलोत्पलपुण्डरीकारुणाम्भोजराजिराजमानमानससवृक्षे श्रीवत्स-

मुक्तासरवैजयन्तीमालाविलासिनि विशाले अङ्कपालीसमासक्तायाः
 

सुवर्णप्रतिमानुकारिण्याः
 
सविलासिन्याश्चक्रवाकशकुन्त
 
सदृशाभ्यां
 

कुचाभ्यामाश्लिष्टे वक्षःस्थले विद्यमानचन्दनानुमोदिना वायुना दिक्षु विसर्पता

निखिलदिङ्मुखस्थितजनेष्टानन्दसन्दोहं कन्दलयतीति भावः ॥
 

 
॥ इति वक्षोवर्णनम् ॥
 

 
<bold>
*
 
अथ भुजवर्णनम्
 
*<bold>
 
धावदिति ॥ धावत् पलायमानं आरं अरिसमूह एव दुस्तरत्वादब्धि

स्समुद्रः तस्य मन्थानशैले मन्दरपर्वते । उदधेर्मन्दरगिरिरिव शत्रुसमूहस्य

बाहुयुगं क्षोभकरमिति भावः । कन्धस्य कबन्धाख्यासुरस्य अहिते

अहितकारिणि । कबन्धासुरस्य भुजौ योजनदेशावलम्बिनौ रामो बाहुयुगेन

अच्छिनदिति प्रसिद्धिः । सेतोर्बन्धेन ग्रथनेन, आवृतः अवरुद्धः,

उदन्वान्समुद्रः अल्पत्वादन्धुः कूप इव उदन्वदन्धुर्यस्य तस्मिन् ।

"पुंस्येवान्धुः प्रहिः कूप'" इत्यमरः । महानपि समुद्रस्सेतुबन्धनविषये

अन्धुरिव भवतीति अतिबलशालीति भावः । अहीशानस्य भोगीन्द्रस्य बन्धौ

सुहृदि सदृशे इत्यर्थः । इतः प्राप्तः इपूषुणां बाणानामस्त्राणामसीनां

सन्धिस्सन्धानं सम्बन्धो येन तस्मिन् बाणासिधारिणीत्यर्थः । धार्मिकाणां

धर्मं चरतां सतां । धर्मं चरतीति ठक् । अघस्य दुःखस्य, अतिसन्धाने

प्रतारणे धौरेय्याः धुरं भारं <error>वोट्र्यास्सन्धायाः</error> <fix>वोढ्र्यास्सन्धायाः</fix> प्रतिज्ञाया:
 
18