This page has not been fully proofread.

तम् ॥
 
नीलोत्पलपुण्डरीकारुणाम्भोजराजिराजमानमानससवृक्षे श्रीवत्स-
मुक्तासरवैजयन्तीमालाविलासिनि विशाले अङ्कपालीसमासक्तायाः
 
सुवर्णप्रतिमानुकारिण्याः
 
सविलासिन्याचक्रवाकशकुन्त
 
सदृशाभ्यां
 
कुचाभ्यामाश्लिष्टे वक्षःस्थले विद्यमानचन्दनानुमोदिना वायुना दिक्षु विसर्पता
निखिलदिङ्मुखस्थितजनेष्टानन्दसन्दोहं कन्दलयतीति भावः ॥
 
॥ इति वक्षोवर्णनम् ॥
 
*
 
अथ भुजवर्णनम्
 
धावदिति ॥ धावत् पलायमानं आरं अरिसमूह एव दुस्तरत्वादब्धि
स्समुद्रः तस्य मन्थानशैले मन्दरपर्वते । उदधेर्मन्दरगिरिरिव शत्रुसमूहस्य
बाहुयुगं क्षोभकरमिति भावः । कवन्धस्य कबन्धाख्यासुरस्य अहिते
अहितकारिणि । कबन्धासुरस्य भुजौ योजनदेशावलम्बिनौ रामो बाहुयुगेन
अच्छिनदिति प्रसिद्धिः । सेतोर्बन्धेन ग्रथनेन, आवृतः अवरुद्धः,
उदन्वान्समुद्रः अल्पत्वादन्धुः कूप इव उदन्वदन्धुर्यस्य तस्मिन् ।
"पुंस्येवान्धुः प्रहिः कूप' इत्यमरः । महानपि समुद्रस्सेतुबन्धनविषये
अन्धुरिव भवतीति अतिबलशालीति भावः । अहीशानस्य भोगीन्द्रस्य बन्धौ
सुहृदि सदृशे इत्यर्थः । इतः प्राप्तः इपूणां बाणानामस्त्राणामसीनां
सन्धिस्सन्धानं सम्बन्धो येन तस्मिन् बाणासिधारिणीत्यर्थः । धार्मिकाणां
धर्मं चरतां सतां । धर्मं चरतीति ठक् । अघस्य दुःखस्य, अतिसन्धाने
प्रतारणे धौरेय्याः धुरं भारं वोट्र्यास्सन्धायाः प्रतिज्ञाया:
 
18