This page has been fully proofread once and needs a second look.

4
 
कान्तिगर्व एव क्रौर्यातिशयात् शूलञ्च असिश्च तौ यस्य तं ॥
 

 

 
ननु च
यदीह सीताराघवयोरुपमेययोर्यथाक्रमं सौदामिनी

नीलजलदयोर्बिम्बप्रतिबिम्बभावो विवक्षितस्तर्हि "लावितचञ्चला-

लासितमेघभामान" मिति विन्यासस्स्यात् । नैवमिति चेन्न ।

बिम्बप्रतिबिम्बभावाविवक्षया विशिष्टस्योपमानोपमेयभावाङ्गीकारेणैव

विन्यासोपपत्तेः । तथाच अन्यप्रयोगेऽपि । "निन्दन्तु निर्णीतधियो नितान्तं

मन्दा: पुनर्मामिह मा स्तुवन्तु । यूनः कुचालिङ्गनतो जरत्याः पादप्रहारं

परमं
युवत्या'
" इत्यत्र निर्णीतबुद्धिनिन्दनमन्दमतिस्तवनयोः

युवतीपादप्रहारजरतीकुचालिङ्गनयोः बिम्बप्रतिबिम्बभावे वर्णनीयेऽपि

विन्यासव्यत्यासो दृश्यते । अथाप्याग्रहो यद्यवश्यं वर्णनीयो

बिम्बप्रतिबिम्बभाव इति, तदा बुध्या विवेचनीयमित्यलमियता ! ।
 
परमं
 
इत्यत्र
 

 
तत्र मन्मथस्य लोकातिशायिशृङ्गारितया तदुद्यानस्यापि

तथात्वावश्यंभावात् । सुरारसामोदिनीनां कदलीनां तत्र जननोक्त्या

ततोप्यतिशृङ्गारिता व्यज्यते । तादृशीभिरपि ताभिरुरुसम्पद: आदरणोक्तचा
त्या
ततोप्यतिसौन्दर्यं व्यज्यते । तादृशेऽपि तस्मिन् सीतायाः आलाने करिण्या

इव नित्यसम्पर्कोक्त्या तस्यां रामदेवस्य अनुरागातिशयतरङ्गितान्तरङ्गता

व्यज्यते
॥ तथा चातिमात्रसौन्दर्यकदलीशोभानुकारिणि
पीताम्बरालङ्कते
 
तथा
 
ननु
 
11
 

काञ्चीमणिरश्मिजालानुविद्ध
 
पीताम्बरालङ्कते ऊरुयुगे
 

कृतानुषङ्गनिरतिशयस्नेहरसमुख्यभाजनीकृतजनकतनयी येन निजकायेन

अतिरुचिरचञ्चलालतापरिपूरितान्तरालं कालाम्बुदमधरीकरोतीति भावः
 


 
॥ इत्यूरुवर्णनम् ॥
 
14