This page has not been fully proofread.

4
 
कान्तिगर्व एव क्रौर्यातिशयात् शूलञ्च असिश्च तौ यस्य तं ॥
 

 
यदीह सीताराघवयोरुपमेययोर्यथाक्रमं सौदामिनी
नीलजलदयोर्बिम्बप्रतिबिम्बभावो विवक्षितस्तर्हि "लावितचञ्चला-
लासितमेघभामान" मिति विन्यासस्स्यात् । नैवमिति चेन्न ।
बिम्बप्रतिबिम्बभावाविवक्षया विशिष्टस्योपमानोपमेयभावाङ्गीकारेणैव
विन्यासोपपत्तेः । तथाच अन्यप्रयोगेऽपि । "निन्दन्तु निर्णीतधियो नितान्तं
मन्दा: पुनर्मामिह मा स्तुवन्तु । यूनः कुचालिङ्गनतो जरत्याः पादप्रहारं
युवत्या'
निर्णीतबुद्धिनिन्दनमन्दमतिस्तवनयोः
युवतीपादप्रहारजरतीकुचालिङ्गनयोः बिम्बप्रतिबिम्बभावे वर्णनीयेऽपि
विन्यासव्यत्यासो दृश्यते । अथाप्याग्रहो यद्यवश्यं वर्णनीयो
बिम्बप्रतिबिम्बभाव इति, तदा बुध्या विवेचनीयमित्यलमियता ! ।
 
परमं
 
इत्यत्र
 
तत्र मन्मथस्य लोकातिशायिशृङ्गारितया तदुद्यानस्यापि
तथात्वावश्यंभावात् । सुरारसामोदिनीनां कदलीनां तत्र जननोक्त्या
ततोऽप्यतिशृङ्गारिता व्यज्यते । तादृशीभिरपि ताभिरुरुसम्पद: आदरणोक्तचा
ततोप्यतिसौन्दर्यं व्यज्यते । तादृशेऽपि तस्मिन् सीतायाः आलाने करिण्या
इव नित्यसम्पर्कोक्त्या तस्यां रामदेवस्य अनुरागातिशयतरङ्गितान्तरङ्गता
व्यज्यते
चातिमात्रसौन्दर्यकदलीशोभानुकारिणि
पीताम्बरालङ्कते
 
तथा
 
ननु
 
11
 
काञ्चीमणिरश्मिजालानुविद्ध
 
ऊरुयुगे
 
कृतानुषङ्गनिरतिशयस्नेहरसमुख्यभाजनीकृतजनकतनयी येन निजकायेन
अतिरुचिरचञ्चलालतापरिपूरितान्तरालं कालाम्बुदमधरीकरोतीति भावः
 
॥ इत्यूरुवर्णनम् ॥
 
14