This page has been fully proofread once and needs a second look.

<bold>* अथोरुवर्णनम् *</bold>
 
कामेति ॥ कामस्य मन्मथस्य, हालायास्सुरायाः ।
"सुराकादम्बिनी हाले"ति शब्दरत्नाकरः । रसेन द्रवेण आमोदिन्याः
गन्धवत्याः । "आमोदो गन्धहर्षयो"रिति वैजयन्ती । शालावन्याः
गृहवनस्य । उद्यानस्येति यावत् । वाप्या दीर्घिकायास्तत्र स्थितायाः ।
"सरोवापी तु दीर्घिके" त्यमरः । कूले तटे, अधिरूढाभिर्जाताभिः । अत
एव उर्वी उन्नता, नालालिः काण्डपङ्क्तिः यासां ताभिः रम्भाभिः
कदलीभिः, अनुवेलमत्यन्तं, आदृतया आकाङ्क्षितया, श्रिया शोभया,
विशालौ पूर्णी, अत एव न विद्यते तुला उपमानं ययोस्तावतुलौ असदृशौ,
उरू सक्थिनी तयोर्द्वयमेव आलाने गजबन्धनस्तम्भे । "आलानं
बन्धनस्तम्भे " इति शब्दरत्नाकरः । तस्य सम्पर्चनायां सम्पर्के । या लालसा
महानभिलाषः । "स महान् लालसा द्वयो"रित्यमरः । तस्यामुत्कण्ठिता
। सञ्जातोत्कण्ठा साभिलाषा । इलायाः क्षमाया: । "गौरिला कुम्भिनी
क्षमे"त्यमरः । तस्याः सुता तनया । सीतैव वाशिता करिणी । "धेनुका
करिणी वशा । वाशिता"तिति शब्दरत्नाकरः । तस्याः लालगन्त्यां पुनः
पुनस्सजन्त्यां । 'लगे सङ्ग' इति धातुः । मेखलायां काञ्च्यां । लासिन्य:
राजन्त्य: । रश्मयः किरणा एव रश्मयो गुणा: श्लिष्टरूपकमेतत् । तासां
प्रचालेन सञ्चारेण । अमलेन निर्मलेन, स्वर्णचलेन पीताम्बरेण, आवृतस्य
आच्छादितस्य, स्वम्यात्मनः, प्रभया कान्त्या, लावितौ लवनं छेदनं प्रापितौ
। अब्दस्य जलदस्यान्तराले मध्ये । आवलन्ती सञ्चलन्ती, चञ्चला चपला
। क्षुद्रत्वादलातमिव उल्केव । उपमितसमासः ।
"अस्त्रियामुल्मुकोऽलातमुल्के"ति शब्दरत्नाकर: । तस्य भामान: