This page has been fully proofread once and needs a second look.

<bold>* अथोरुवर्णनम् *
 
<bold>
 
कामेति
॥ कामस्य मन्मथस्य, हालायाम्स्सुरायाः ।

"सुराकादम्बिनी हाले '"ति शब्दरत्नाकरः । रसेन द्रवेण आमोदिन्याः

गन्धवत्याः । "आमोदो गन्धहर्षयो " "रिति वैजयन्ती । शालावन्याः

गृहवनस्य । उद्यानस्येति यावत् । वाप्या दीर्घिकायास्तत्र स्थितायाः ।
 
'

"
सरोवापी तु दीर्घिके '" त्यमरः । कूले तटे, अधिरूढाभिर्जाताभिः । अत

एव उर्वी उन्नता, नालालिः काण्डपङ्क्तिः यासां ताभिः रम्भाभिः

कदलीभिः, अनुवेलमत्यन्तं, आदृतया आकाङ्क्षितया, श्रिया शोभया,

विशालौ पूर्णी, अत एव न विद्यते तुला उपमानं ययोस्तावतुलौ असदृशौ,

उरू सक्थिनी तयोर्द्वयमेव आलाने गजबन्धनस्तम्भे । "आलानं

बन्धनस्तम्भे " इति शब्दरत्नाकरः । तस्य सम्पर्चनायां सम्पर्के । या लालसा

महानभिलाषः । "स महान् लालसा द्वयो' ' "रित्यमरः । तस्यामुत्कण्ठिता

। सञ्जातोत्कण्ठा साभिलाषा । इलायाः क्षमाया: । "गौरिला कुम्भिनी

क्षमे ' "त्यमरः । तस्याः सुता तनया । सीतैव वाशिता करिणी । "धेनुका

करिणी वशा । वाशिता '"तिति शब्दरत्नाकरः । तस्याः लालगन्त्यां पुनः

पुनस्सजन्त्यां । 'लगे सङ्ग' इति धातुः । मेखलायां काञ्च्यां । लासिन्य:

राजन्त्य: । रश्मयः किरणा एव रश्मयो गुणा: श्लिष्टरूपकमेतत् । तासां

प्रचालेन सञ्चारेण । अमलेन निर्मलेन, स्वर्णचलेन पीताम्बरेण, आवृतस्य

आच्छादितस्य, स्वम्यात्मनः, प्रभया कान्त्या, लावितौ लवनं छेदनं प्रापितौ
 

। अब्दस्य जलदस्यान्तराले मध्ये । आवलन्ती सञ्चलन्ती, चञ्चला चपला
 

 

क्षुद्रत्वादलातमिव
 
उल्केव ।
 
उपमितसमासः
 

 

"अस्त्रियामुल्मुकोऽलातमुल्के' '"ति शब्दरत्नाकर: । तस्य भामान:
 
"
 
13