This page has been fully proofread once and needs a second look.

लाभवान् शोणचेलेन अरुणवस्त्रेण आवृत: स्मारो मान्मथ: कलापास्तूणीर:
"कलापो भूषणे बर्हे तूणीरे संहतावपी"ति अमरः । तस्य सम्बन्धिनीनां
भानां कान्तीनां गर्वोऽभिमान एव हलाहलो विषविशेषो यस्य तं ॥
मणिमञ्जीरकलापमञ्जुलपादलग्नकटकशोभानुप्राणितैः पाद -
द्वयादपसरद्धिररुणकान्तिप्ररोहै: उज्वलं इन्द्रनीलशिलानिर्मितस्थूल
शङ्कसङ्काशं जङ्घायुगलम् । कलापि कलापकलितावरणं
सूक्ष्मारुणपटप्रसेवकान्तरितं मन्मथस्य तूणीरमधरीकरोतीति भावः ॥
 
॥ इति जङ्घावर्णनम् ॥
 
<bold>* अथ जानुवर्णनम् *</bold>
 
कान्तीति ॥ कान्ते: लावण्यस्य, वेलाया: कूलस्य, अतिसन्धाने
अतिक्रमणे, या खेला लीला । तस्यां सजतामासक्तानां
उद्वेललावण्यानामिति यावत् । द्योतानां किरणानां, मालया पङ्क्तया,
लसन्, जम्भकालस्य इन्द्रस्य, अश्मकं अश्म । स्वार्थे कः । तन्मणिः
तस्य आदर्शो मुकुरस्तन्मय इत्यर्थः । तस्याऽऽभायाश्शोभायाः, लावकाभ्यां
छेदकाभ्यां <error>अष्ठीवद्धयां</error> <fix>अष्ठीवद्भ्यां</fix> जानुभ्यां । "जानूरु पर्वाष्ठीवदि"त्यमरः ।
आलासितमत्यन्तं शोभितं ॥ जानुनी
निरतिशयकिरणभरितेन्द्रनीलनिर्मितमुकुरलावण्यपारम्परीमश्रु वाते इति
भावः ॥
 
॥ इति जानुवर्णनम् ॥