This page has not been fully proofread.

लाभवान् शोणचेलेन अरुणवस्त्रेण आवृत: स्मारो मान्मथ: कलापास्तूणीर:
"कलापो भूषणे बर्हे तूणीरे संहतावपी " ति अमरः । तस्य सम्बन्धिनीनां
भानां कान्तीनां गर्वोऽभिमान एव हलाहलो विषविशेषो यस्य तं ॥
मणिमञ्जीरकलापमञ्जुलपादलग्नकटकशोभानुप्राणितैः पाद
 
द्वयादपसरद्धिररुणकान्तिप्ररोहै: उज्वलं
 
इन्द्रनीलशिलानिर्मितस्थूल
कलापकलितावरणं
 
शङ्कसङ्काशं जङ्घायुगलम् । कलापि
सूक्ष्मारुणपटप्रसेवकान्तरितं मन्मथस्य तूणीरमधरीकरोतीति भावः ॥
 
॥ इति जङ्घावर्णनम् ॥
 
*
 
अथ जानुवर्णनम्
 
कान्तीति ॥ कान्ते: लावण्यस्य, वेलाया:
कूलस्य, अतिसन्धाने
अतिक्रमणे, या खेला लीला । तस्यां सजतामासक्तानां
उद्वेललावण्यानामिति यावत् । द्योतानां किरणानां, मालया पङ्क्तया,
लसन्, जम्भकालस्य इन्द्रस्य, अश्मकं अश्म । स्वार्थे कः । तन्मणिः
तस्य आदर्शो मुकुरस्तन्मय इत्यर्थः । तस्याऽऽभायाश्शोभायाः, लावकाभ्यां
छेदकाभ्यां अष्ठीवद्धयां जानुभ्यां । "जानूरु पर्वाष्ठीवदि ' त्यमरः ।
आलासितमत्यन्तं
शोभितं
 

 
जानुनी
 
निरतिशयकिरणभरितेन्द्रनीलनिर्मितमुकुरलावण्यपारम्परीमनुवाते इति
 
॥ इति जानुवर्णनम् ॥
 
भावः ॥
 
12