This page has been fully proofread once and needs a second look.

<bold>॥ अथ जङ्घावर्णनम् ॥<bold>
 
मणिमयेति ॥ मणिमयस्य मञ्जीरखचितमणिविकारस्य,
पदचञ्चुनः पादतुण्डस्य । "<error>प्राण्यङ्गत्वावन्द्व</error> <fix>प्राण्यङ्गत्वाद्द्वन्द्वश्च</fix> प्राणितूर्यसेनाङ्गानाम्'
इत्येकवद्भावः । शिञ्जिन्या: मरालितया वर्णनात्तत्खचितमणिषु
पदचञ्चुत्वारोप:, लीलया क्रीडया, चलनादनुरूपाया चलन्ती शिञ्जिनी
नूपुरः । 'शिञ्जिनीनूपुरज्ययो"रिति वैजयन्ती । सैवोत्तरत्र पादकटकस्य
हंसतया वर्णनात् । लालसती भृशं शोभमाना सती । समीचीना मरालाबला
हंसवधूः तस्याः केली कोलाहलेन क्रीडाकलकलध्वनिना, आकृष्टः
स्वीकृत:, खेलया लीलया, मिलन् हंसक: पादकटक एव हंसक: हंसः
। 'हंसक: पादकटक" इत्यमरः । स्वार्थे कन् । तस्यालापेन ध्वनिना,
प्राप्तया वाचालतया जल्पाकतया । "स्याज्जल्पाकस्तु वाचाल" इत्यमरः
। लासिनो भासिन:, पादाब्जस्य पादपद्मस्य, बालातपे तरुणारुणकिरणे
प्रेम स्नेह: शीलं स्वभावो यस्य तथोक्तः तादृश इति यावत् । अत एवामलो
निर्मलः द्योतानां कान्तीनां जालस्समूह इत्यभिधा यस्य तेन, <error>शुक्ष्णेन</error> <fix>श्लक्ष्णेन</fix>
स्निग्धेन, चोलेन प्रछदपटेन, अवरुद्धाया आवृतायाः, इन्द्रनील आत्मा
स्वरूपं यस्य तत् स्थूलं कीलं शङ्क: तस्याभेवाभा यस्यास्तत्सदृशायास्तस्याः
जङ्घाद्वय्याः यस्य जङ्घायुगलस्य लालित्या ललिततया शोभया । "ललनं
केलिशोभयो" रित्यमरः । ब्राह्मणादित्वात् <error>ध्यञ्</error> <fix>ष्यञ्</fix> पित्वात् ङीष् ।
हलस्तद्धितस्येति यलोप: । दत्त: वितीर्ण: मूलस्याभिलाषो यस्य स तथोक्तः
उर्व्या: कालापिन्याः मयूरसम्बधिन्याः तस्येदमित्यण्णन्तत्वात् ङीप् ।
पुंवत्कर्मधारयेति पुंवद्भावः । छादनाया: आवरणस्य लाभोऽस्यास्तीति