This page has been fully proofread once and needs a second look.

॥ अथ जङ्घावर्णनम् ॥
 

 
मणिमयेति 11 मणिमयस्य मञ्जीरखचितमणिविकारस्य,

पदचञ्चुनः पादतुण्डस्य । "<error>प्राण्यङ्गत्वावन्द्व</error> <fix>प्राण्यङ्गत्वाद्द्वन्द्वश्च</fix> प्राणितूर्यसेनाङ्गानाम्'

इत्येकवद्भावः । शिञ्जिन्या: मरालितया वर्णनात्तत्खचितमणिषु

पदचञ्चुत्वारोप:, लीलया क्रीडया, चलनादनुरूपाया चलन्ती शिञ्जिनी

नूपुरः । 'शिञ्जिनीनूपुरज्ययो '"रिति वैजयन्ती । सैवोत्तरत्र पादकटकस्य

हंसतया वर्णनात् । लालसती भृशं शोभमाना सती । समीचीना मरालाबला

हंसवधूः तस्याः केली कोलाहलेन क्रीडाकलकलध्वनिना, आकृष्टः

स्वीकृत:, खेलया लीलया, मिलन् हंसक: पादकटक एव हंसक: हंसः

। 'हंसक : पादकटक" इत्यमरः । स्वार्थे कन् । तस्यालापेन ध्वनिना,

प्राप्तया वाचालतया जल्पाकतया । "स्याजल्पाकस्तु
'
स्याज्जल्पाकस्तु वाचाल'" इत्यमरः
 

। लासिनो भासिन:, पादाब्जस्य पादपद्मस्य, बालातपे तरुणारुणकिरणे

प्रेम स्नेह: शीलं स्वभावो यस्य तथोक्तः तादृश इति यावत् । अत एवामलो

निर्मलः द्योतानां कान्तीनां जालस्समूह इत्यभिधा यस्य तेन, <error>शुक्ष्णेन
</error> <fix>श्लक्ष्णेन</fix>
स्निग्धेन, चोलेन प्रछदपटेन, अवरुद्धाया आवृतायाः, इन्द्रनील आत्मा

स्वरूपं यस्य तत् स्थूलं कीलं शङ्क: तस्याभेवाभा यस्यास्तत्सदृशायास्तस्याः

जङ्घाद्वय्याः यस्य जङ्घायुगलस्य लालित्या ललिततया शोभया । "ललनं

केलिशोभयो" रित्यमरः । ब्राह्मणादित्वात् <error>ध्यञ्</error> <fix>ष्यञ्</fix> पित्वात् ङीष् ।

हलस्तद्धितस्येति यलोप: । दत्त: वितीर्ण: मूलस्याभिलाषो यस्य स तथोक्तः

उर्व्या: कालापिन्याः मयूरसम्बधिन्याः तस्येदमित्यण्णन्तत्वात् ङीप् ।

पुंवत्कर्मधारयेति पुंवद्भावः । छादनाया: आवरणस्य लाभोऽस्यास्तीति
 
>