This page has not been fully proofread.

। मण्डलया:
 
"अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः" इत्यमरः
बिम्बस्य । "मण्डलं त्रिषु बिम्बोऽस्त्री 'ति शब्दरत्नाकरः । राजेस्समूहस्य
धियस्तद्विषयमतेः कृद्धयः कुर्वद्भयः नखेभ्यो नखरेभ्यः आरारभतां पुनः
पुनरारभमाणानां निस्सरतामिति यावत् । भूरीणां बहूनां गौराणां शुभ्राणामत
एवानघानां निर्मलानां द्योतानां शोभानां सार उत्कर्षांश इत्यभिधा यस्याः
। "सारो बले स्थिरांशेचे 'त्यमरः । तस्याः ज्योत्स्निकाया: कौमुद्या:
रागात् धावल्यरूपात् राशीति वा पाठ: । सज्जन्तीभिस्सन्नद्धाभि
रुत्पाद्यमानाभिरिति यावत् । पाटीरानुलेपो मलयजगन्धः उरुहारावली
उन्नतमुक्तासर: सत्पटी
प्रशस्तवस्त्रं च ताभि: उत्तरत्र दिशांवधू तया
वर्ण्यमानत्वात् । एवं सम्पद्यमानाभिज्योत्स्निकाभिरिति यावत् । राजितानां
भूषितानामाशा दिश एव वध्वस्तासां राजानो नायका इन्द्रादयो
लोकपालास्तेषां हृन्मोदभारावतारे स्वान्तसन्तोषातिशयप्रापणे आदरणं
यस्येति व्यधिकरणबहुव्रीहिः
स्वस्वविलासिनीनां
पाटीरानुलेपाद्यनवद्यालङ्कारलाभान्मनसि मोदमावहन्ते मघवन्मुखा देवा इति
भावः । तमेतादृशं श्रियस्तातायास्तस्या एव लक्ष्मीत्वादिति भावः । पतिं
धवं मूलरामदेवं नुमस्तुम: अभ्यर्हितत्वाच्च यमिति लभ्यते ।
निस्सीमशोणिमारुणपङ्कजापमानपदयोः
 

 
-
 
चन्द्रबिम्बानुकारिणां
 
कौमुदीशोभानुकारिणीभिस्सर्वत्र सञ्चारिणीभिर्दशदिशां भागा
धवलीभवन्तीति भावः ॥१॥
 
॥ इति नखवर्णनम् ॥
 
नखराणां
 
मूलरामपादयोर्लसतां
कान्तिश्रेणीभिः
 
10