This page has been fully proofread once and needs a second look.

लब्धातिरक्तिमाभाभरामिश्र रजोराजितम् । लेखविलासिनीनील-

कुन्तलकान्तिलब्धातिनैल्याभिर्बलारि नीलोपलाभाभिरपि शोभितं

श्रीमूलरामाङ्घ्रियुगलं अहिमांशुकिरणसञ्चारलब्धममन्दमकरन्दसन्दानितं

सकन्दमिन्दिन्दिरवृबृन्दविलासाङ्गीकृतनीलश्रियं पद्मं तिरस्करोतीतिभावः ॥

 
॥ इति पादतलवर्णनम् ॥
 

 
<bold>
*
 
अथ नखवर्णनम् *
 
अथ नखवर्णनम्
 
<bold>
 
आत्मेति ॥ आत्मना स्वेन, अर्पितस्य प्रापितस्य, अलीकस्य

अप्रियस्य, मुकुलनकरत्वादिति भावः । तापस्य सन्तापस्य । प्रसारण

विसरणेन, आहितं प्रापितं, अत्यर्थघोरमतिदारुणं अतिसङ्कोच: ।

अत्यन्तमुकुलनमेव ग्लानिकरत्वात् कारागृहस्थानं बन्धनालयस्थलं ।
 
1
 

"
कारा स्याद्बन्धनालयः" इत्यमरः । तस्मिन्नीरागवासस्य रक्तिमाभावतया

वासस्य प्रकारेण रीत्या । लोके हि कारामन्दिरबन्दीकृतः पुमान्

कुत्राप्यनभिलाषुः को वसतीति वस्तुतया साधारणेन नीरागशब्देन व्यज्यते

। अर्पितया प्रापितया ईशस्याङ्घ्रितया अङ्घ्रिभावेन राजमानानां

भासन्तीनामुर्वीणामुत्कृष्टानां भानां कान्तीनामारामभूतं उपवनभूतं

"आरामस्यादुपवन" मित्यमरः । आकरमिति यावत् । स हि

नानाविधकुसुमानामाकरो भवति । <error>तस्यान्जस्य </error> <fix>तस्याब्जस्य</fix>कमलस्य कारागारसदृशे

संसारे दु:खपारंपरीमनुभवन्तो रागद्वेषतिरस्कारेण तपस्यन्तो भगवदङ्घ्रि

प्रतिपद्य राजन्त इत्यर्थान्तरध्वनिः । वैरस्य तद्विषयकद्वेषस्य अपनोदे

अपाकरणे क्षमा समर्थनाराधनाय पूजनाय <error>तादर्ये</error> <fix>तादथ्र्ये</fix> चतुर्थी । चतुर्थीति

योगविभागात्समासः । आनम्रस्यानतस्य ताराधिभुव: ताराधिपस्य ।
 
9