This page has been fully proofread once and needs a second look.

"गृहवृट्टनिश्चिगमश्चे '" ति भावे <error>इः </error> <fix>ङ्ः</fix>। सप्तम्युपमानेत्युपमानपूर्वपद बहुव्रीहिः

। तासां नीला <error>श्यामाच</error> <fix>श्यामाश्च </fix> ता: चूल्यश्च केशवेषविशेषाः । अथवा

यथाश्रुतेन्द्राश्ममौलीरिताभानां विशेषणम् । तदा हि नीलोपलकान्तीनां स्वतो

नीलानां नीलीसतां देवस्त्रीनीलचूलीभिः प्रच्छादितत्वोक्तया गुणोत्कर्ष उक्तो

भवति । ताभिर्युनक्तीति युजा युक्तेन <error>अङ्मयोः</error> <fix>अङ्घ्र्योः</fix> रामस्य पादयोर्द्वयेन

युगेनालीढास्वादिता स्वीकृतेति यावत् । लक्ष्मीश्शोभा यस्य तत् ।

"शोभासम्पत्तिपद्मासु लक्ष्मीदते (श्रीरपि कथ्यते पाठान्तरम्) " ति
"ति
विश्वः । नघृतश्चेति कप् । हेलिना भानुना । "हीनसर्पे हरे सिंहे हेलिरालिङ्गने

रवा" विति वैजयन्ती । ईरितायाः क्षिप्तायाः अत एव न्यग्भूतायाः अध:

पतन्त्याः कुहेल्या: हिमधूलिकायाः । कुहेलिहि मधूलिके" ति

शब्दरत्नाकरः । वियोगेन विरहेण अनरालीभवन्त्याः अकुटिलीभवन्त्याः

ऋजूभवन्त्या इत्यर्थः । समीचीनाया इति यावत् । पुष्पस्य कुसुमस्य

सम्बन्धिन्याः गौल्या स्सुराविशेषस्य । "तद्भेदा माधव: पैष्टी गौली' ति
"ति
शब्दरत्नाकरः । मकरन्दस्येति यावत् । झरी - प्रवाह: । "प्रवाहो निर्झरो

झर'" इत्यमरः । भानूदये समुज्जृम्भात्किरणानां वियोगतः ।

पयोजाताग्रलग्नानां कुहेलीनां विकासनात् । पद्मानां मकरन्दानां सामीचीन्यं

भवेदिति भावः । तस्यां लोलुभानां लोलुपानाम् । "समौ लोलुपलोलुभा'
"
वित्यमरः । अलीनां भ्रमराणां ईहितेन चेष्टया स्तोकमल्पं कालीभवन्नीली

भवत् सत्या प्रशस्तया मृणाल्या बिसेन लसत् राजत् अत एव फुल्लं विकसितं

समूलत्वादिति भावः । नालीकं सहस्रपत्रं कमलं यस्य तत् । "सहस्रपत्रं

नालीक" मिति शब्दरत्नाकरः ।
 

 
नमस्यन्नाकिमकुटविलसन्मणिविभाभिराक्रान्त दीपश्रीभिः
 
8