2023-03-04 07:35:00 by ambuda-bot
This page has not been fully proofread.
"गृहवृट्टनिश्चिगमश्चे 'ति भावे इः । सप्तम्युपमानेत्युपमानपूर्वपद बहुव्रीहिः
। तासां नीला श्यामाच ता: चूल्यश्च केशवेषविशेषाः । अथवा
यथाश्रुतेन्द्राश्ममौलीरिताभानां विशेषणम् । तदा हि नीलोपलकान्तीनां स्वतो
नीलानां नीलीसतां देवस्त्रीनीलचूलीभिः प्रच्छादितत्वोक्तया गुणोत्कर्ष उक्तो
भवति । ताभिर्युनक्तीति युजा युक्तेन अङ्मयोः रामस्य पादयोर्द्वयेन
युगेनालीढास्वादिता स्वीकृतेति यावत् । लक्ष्मीश्शोभा यस्य तत् ।
"शोभासम्पत्तिपद्मासु लक्ष्मीदते (श्रीरपि कथ्यते पाठान्तरम्) " ति
विश्वः । नघृतश्चेति कप् । हेलिना भानुना । "हीनसर्पे हरे सिंहे हेलिरालिङ्गने
रवा" विति वैजयन्ती । ईरितायाः क्षिप्तायाः अत एव न्यग्भूतायाः अध:
पतन्त्याः कुहेल्या: हिमधूलिकायाः । कुहेलिहि मधूलिके" ति
शब्दरत्नाकरः । वियोगेन विरहेण अनरालीभवन्त्याः अकुटिलीभवन्त्याः
ऋजूभवन्त्या इत्यर्थः । समीचीनाया इति यावत् । पुष्पस्य कुसुमस्य
सम्बन्धिन्याः गौल्या स्सुराविशेषस्य । तद्भेदा माधव: पैष्टी गौली' ति
शब्दरत्नाकरः । मकरन्दस्येति यावत् । झरी - प्रवाह: । "प्रवाहो निर्झरो
झर' इत्यमरः । भानूदये समुज्जृम्भात्किरणानां वियोगतः ।
पयोजाताग्रलग्नानां कुहेलीनां विकासनात् । पद्मानां मकरन्दानां सामीचीन्यं
भवेदिति भावः । तस्यां लोलुभानां लोलुपानाम् । "समौ लोलुपलोलुभा'
वित्यमरः । अलीनां भ्रमराणां ईहितेन चेष्टया स्तोकमल्पं कालीभवन्नीली
भवत् सत्या प्रशस्तया मृणाल्या बिसेन लसत् राजत् अत एव फुल्लं विकसितं
समूलत्वादिति भावः । नालीकं सहस्रपत्रं कमलं यस्य तत् । "सहस्रपत्रं
नालीक" मिति शब्दरत्नाकरः ।
नमस्यन्नाकिमकुटविलसन्मणिविभाभिराक्रान्त दीपश्रीभिः
8