This page has been fully proofread once and needs a second look.

शब्दरत्नाकरः । "तस्य वा नामधेयस्ये '" ति वृद्धसंज्ञायां 'वृद्धाच्छ' इति

छप्रत्ययः स चासौ रागो रक्तिमा तस्य प्रतोली वीथी येषां ते तथोक्ताः

। 'न घृतश्चे'ति कप् । ते च ते हीराणां वज्राणामङ्करा: प्ररोहा एव

सादृश्यादलीका: अनृताः "अलीकं त्वप्रियेऽनृत'" इत्यमरः । दीपा:

प्रदीपाः तेषां प्रणाली तदीया कान्तिनिस्सरणपदवी । यद्यपि 'द्वयोः प्रणाली

पयस: पदव्या' मित्यभिधानेन प्रणालीशब्दः पयस्सम्बन्धिक मार्गविशेषे

प्रसिद्धः तथापीह पयस्सदृशवस्तुमात्रमार्गवाचकतया गृह्यते । तथा हि

कवयः । 'अवतंस: कर्णभूषण' मित्यभिधानेन अवतंसशब्दं कर्णभूषणे

प्रसिद्धमपि चूडावतंस: कुलावतंस इत्यादौ भूषणमात्रे प्रयुज्यते । तस्याः

घनं निबिडं यथाभवति तथा उद्यन्तीभिः निस्सरन्तीभिः प्रभानां

कान्तीनामालिभिः पङ्क्तिभि: विनीराजिता आरार्तिता अत एवालीना

निबिडा । शोभाधिक्यलाभादिति भावः । शोभा: पादकान्तय एव उत्तरत्र

पादस्याब्जतया वर्ण्यमानत्वात् । मधूल्यस्सुराभेदा: । "तद्भेदा माधवः

पैष्टी गौली माध्वी मधूल्यपी '"ति शब्दरत्नाकरः । इह तु सुम-

सम्बन्धित्वान्मकरन्दा इत्यर्थः । तासां भरैः अतिशयैः । "अप्यथातिशयो

भर'" इत्यमरः । आमिश्राभि रामिलिताभिः धूल्यो रेणव एव धूल्य: परागा:

। श्लिष्टरूपकमेतत् । ताभिर्भूतस्य पूर्णस्य प्रान्तस्य पादपरिसरदेशस्य

अनालीनाली सम्पद्यमानास्ति नाली सती । अभूततद्भावे च्विः । अस्य

<error>
च्यावितीकारः </error> <fix>च्वावितीकारः</fix>। इन्द्राश्ममौलिभ्यः इन्द्रनीलखचितकिरीटेभ्यः ईरिता

निस्सृता आभा: प्रभाश्च । निचोलीभवन्त्यः प्रान्तस्य प्रच्छदपटीभवन्त्यः

। "निचोल: प्रच्छदपट " इत्यमरः । द्योमरालीगमानां स्वर्गसीमन्तिनीनाम्

। द्योस्स्वर्गस्य मराल्या: हंसस्त्रियाः । "हंसो मरालश्चक्राङ्गो मानसौकास्सित

छद" इति शब्दरत्नाकरः । गमो गमनमिव गमो यासान्ताः ।
 
7
 
U