This page has not been fully proofread.

शब्दरत्नाकरः । तस्य वा नामधेयस्ये ' ति वृद्धसंज्ञायां 'वृद्धाच्छ' इति
छप्रत्ययः स चासौ रागो रक्तिमा तस्य प्रतोली वीथी येषां ते तथोक्ताः
। 'न घृतश्चेति कप् । ते च ते हीराणां वज्राणामङ्करा: प्ररोहा एव
सादृश्यादलीका: अनृताः अलीकं त्वप्रियेऽनृत' इत्यमरः । दीपा:
प्रदीपाः तेषां प्रणाली तदीया कान्तिनिस्सरणपदवी । यद्यपि 'द्वयोः प्रणाली
पयस: पदव्या' मित्यभिधानेन प्रणालीशब्दः पयस्सम्बन्धिक मार्गविशेषे
प्रसिद्धः तथापीह पयस्सदृशवस्तुमात्रमार्गवाचकतया गृह्यते । तथा हि
कवयः । 'अवतंस: कर्णभूषण' मित्यभिधानेन अवतंसशब्दं कर्णभूषणे
प्रसिद्धमपि चूडावतंस: कुलावतंस इत्यादौ भूषणमात्रे प्रयुज्यते । तस्याः
घनं निबिडं यथाभवति तथा उद्यन्तीभिः निस्सरन्तीभिः प्रभानां
कान्तीनामालिभिः पङ्क्तिभि: विनीराजिता आरार्तिता अत एवालीना
निबिडा । शोभाधिक्यलाभादिति भावः । शोभा: पादकान्तय एव उत्तरत्र
पादस्याब्जतया वर्ण्यमानत्वात् । मधूल्यस्सुराभेदा: । "तद्भेदा माधवः
पैष्टी गौली माध्वी मधूल्यपी 'ति शब्दरत्नाकरः । इह तु सुम-
सम्बन्धित्वान्मकरन्दा इत्यर्थः । तासां भरैः अतिशयैः । अप्यथातिशयो
भर' इत्यमरः । आमिश्राभि रामिलिताभिः धूल्यो रेणव एव धूल्य: परागा:
। श्लिष्टरूपकमेतत् । ताभिर्भूतस्य पूर्णस्य प्रान्तस्य पादपरिसरदेशस्य
अनालीनाली सम्पद्यमानास्ति नाली सती । अभूततद्भावे च्विः । अस्य
च्यावितीकारः । इन्द्राश्ममौलिभ्यः इन्द्रनीलखचितकिरीटेभ्यः ईरिता
निस्सृता आभा: प्रभाश्च । निचोलीभवन्त्यः प्रान्तस्य प्रच्छदपटीभवन्त्यः
। "निचोल: प्रच्छदपट " इत्यमरः । द्योमरालीगमानां स्वर्गसीमन्तिनीनाम्
। द्योस्स्वर्गस्य मराल्या: हंसस्त्रियाः । "हंसो मरालश्चक्राङ्गो मानसौकास्सित
छद" इति शब्दरत्नाकरः । गमो गमनमिव गमो यासान्ताः ।
 
7
 
U