This page has been fully proofread once and needs a second look.

प्रस्थस्सा नुरस्त्रिया" मित्यमरः । तस्य धीरताया धैर्यस्य आधारं
अधिकरणभूतम् । कुलाचलधीरतासदृक्षधैर्यशालिनमिति यावत् । त्वां
भवन्तं । नोनुभः पौनः पुन्येन भृशं वा स्तुमः । "णुस्तुता' विति धातोर्यङ्
लुकि प्रत्ययलक्षणेन 'सन्यङो'रिति द्वित्वे "पूर्वोऽभ्यास"
इत्यभ्याससंज्ञायां गुणे 'यङ्लुको' रित्यभ्यासस्य गुणे च लटि
परस्मैपदमुत्तमपुरुषबहुवचनम् ॥
 
अत्र रघूद्वहे पूर्णचन्द्रत्वारोपे सूर्यान्ववाये समुद्रत्वारोपस्य हेतुत्वेन
रूपकहेतुरूपकस्य वर्णनात् परम्परितरूपकालङ्कारः॥
सानुमद्धीरताधारमित्यत्र दार्थवृत्तिनिदर्शनालङ्कारश्च ॥ सर्वपादादौ
नुशब्दानुवृत्ते: अनुप्रासरूपशव्दालङ्कारश्चेत्येतेषां 'मौक्तिक पद्मराग' न्यायेन
संसृष्टिः । तदुक्तं- "ग्राह्ये भेदे तु संसृष्टिरग्राह्ये सङ्करस्स्मृतः" इति ॥ १॥
 
<bold>* अथ पादतलवर्णनम् *</bold>
 
नमदिति ॥ नमतां नमस्कुर्वतां अमराणां - आदित्यानां किरीटानि
मुकुटानि तेषां पाल्यः पङ्क्तयः एव तन्मणिकान्तीनामुत्तरत्र दीपतया
वर्ण्यमानत्वात्। मिषारार्तिका: कपटनीराजनभाजनानि तासु लीनानि
श्लिष्टानि प्रत्युप्तानि च तानि सतां प्रशस्तानां चम्पकानां कुसुमानामाल्या:
पङ्क्ते: रुचि: प्रौढि: कान्त्यतिशयः तस्याः केलीसुहृन्दि लीलामित्राणि
तत्सदृक्षाणीति यावत् तानि (सदृशानीति पा०) रत्नानि वालवायजमणयस्ते
हि जात्या चम्पकप्रसूनसङ्काशकान्तिभाजो भवन्ति । तेषां पालीभिः
राजिभिः समञ्चंती सङ्गच्छमाना अर्थात्कान्तिभिरिति लभ्यते । प्रवालस्य
तत्र खचितस्य विद्रुमस्यायं प्रवालीयः । "प्रवालो विद्रुमः पुंसी"ति